________________
षष्ठ उच्छ्वासः
किं त्वियमेकपथा, सा तु दृष्टशतपथा' इत्येवमनेकविधवक्रोक्तिविशेषैरभिनन्दयति दमयन्तीकिंनरमिथुने, भूतभूयिष्ठायां विभावर्याम्, सुरसङ्घ इवादृश्यमानमानुषे निशीथे, स्थगितवति भृङ्गभासि तमसि भुवनम्,
अनन्तरमवसरपाठकः पपाठ ।
किन्तु - परं इयं दमयन्ती एक एव पन्थाः - त्वल्लक्षणो मार्गो यस्याः सा एकमार्गा, भवत्वेव प्रवर्तनात् तस्याः सा तु वेदविद्या' तु शतसंख्यानां पथां समाहारः शतपथं दृष्टं शतपथं यया सा दृष्टशतपथा । पक्षे तु दृष्टपथाख्यग्रन्थाः शतपथमिति । " ऋक्पूरब्धूः पथमानक्षे ।" [पा. सू. ५/५ / ७५ ] इति अप्रत्ययः समासान्तः । पात्रादित्वात् स्त्रीत्वं न । इत्येवं पूर्वोक्तप्रकारेण अनेकविधा - नानाविधा ये वक्रोक्तिविशेषास्तैः कृत्वा किन्नरमिथुने दमयन्तीमभिनन्दयति-स्तुवति सति । तथा विभावर्यां रात्रौ भूयिष्ठा - भूयसी भूता - अतिक्रान्ता या सा भूतभूयिष्ठा । आहिताग्न्यादित्वात् [ वाहिताग्न्यादिषु, पा. सू. २/ २ / ३७] निष्ठान्तस्य पूर्वनिपातः । एवम्विधायां सत्यां बहव्यां गतायामित्यर्थः । तथा तमोऽतिशयात् अदृश्यमाणा-अनवेक्ष्यमाणा मानुषा यस्मिन् तथाविधे निशीथे - अर्द्धरात्रे सति । निशीथे कस्मिन्निव ? सुरसंघ इव- सुराणां समूहे इव । किम्भूते तस्मिन् ? स्वभावादेव अदृश्यमानमानुषे । तथा तमसि भुवनं - भूलोकं स्थगितवति आच्छादितवति सति । किम्भूते तमसि ? भृङ्गवन्नीला भा: - छविर्यस्य तत्तस्मिन् । अनन्तरं - पश्चादवसरपाठकः पपाठ । 'उपरम रमणीयाकिंनरद्वन्द्वगीता
दभिभवति निशीथो' नाथ नेत्राणि पश्य ।
मदनवशविलोलल्लोचनाम्भोरुहाणां,
मिलतु' कुलवधूनां सेवको लोक एषः ॥ ५४ ॥
उपेति ? हे नाथ - स्वामिन् ! रमणीयात् किन्नरद्वन्द्वगीताद्- किन्नरद्वन्द्वगीतश्रवणात् उपरम-निवर्त्तस्व, किन्नरद्वन्द्वगानान्निवर्तयेत्यर्थः । "विभाषा कर्मकात् " [पा. सू. १/३/८५] इति उपाद्रम:, परस्मैपदम् । हे नाथ ! त्वं पश्य, निशीथ: - अर्द्धरात्रः प्रकरणात् सैनिकानां नेत्राणि अभिभवति-पराभवति, निद्रया नेत्राणि घूर्णन्त इत्यर्थः । एष प्रत्यक्षः सेवकःअनुचरो लोकः मदनवशेन विलोलन्ति - कम्पमानानि लोचनाम्भोरुहाणि यासां एवम्विधानां कुलवधूनां मिलतु-संयुज्यताम् । मालिनी ॥ ५४ ॥
अपि च
१. वेदविद्या २. तु नास्ति अनू. । ३ - ३. दृष्टशतपथाख्यग्रन्थाः अनू. ।
४७३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org