SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ षष्ठ उच्छासः ४७१ किम्भूता गीतिः ? शुष्कं-अनार्दै अङ्ग-शरीरं यस्या सा । किम्भूताया दमयन्त्याः । घनंनिविडं मांसलमित्यर्थः, चारु-रुचिरं अङ्गं यस्याः सा तस्याः । तथा गीतिस्तु काकलीश्लेष्मवैगुण्यात् द्विधा भूतः स्वरो यस्याः सा । किम्भूताया दमयन्त्याः ? शोभना वाक्यस्याः सा सुवाक् तस्याः । इति वैसदृश्यपक्षः । तत्त्वतस्तु-शुष्कं अवकृष्टं' अङ्गअवयवो यस्याः सा । तथा कु-ईषत् कालोऽस्यामिति नदादित्वादी काकली-निषादसंज्ञः स्वरो यस्याः सा ॥ ५१ ।। अपि च गीतेामाः किल द्वित्राः सा तु ग्रामसहस्त्रभाक् । कूटतानघना गीतिः कथं तस्याः समा भवेत् ॥ ५२ ॥ अपि च-पुनर्दमयन्त्या सह गीते(सदृश्यमाह गीतेरिति । किलेति अरुचौ । अरुचिस्तु गीतिविषये, न दमयन्त्याम् । गीतेामा:खेटकानि द्वित्राः-द्वौ त्रयो वा मानं येषां ते इति द्वित्रा: “बहुब्रीहौ संख्ये ये डबहुगणात्" [पा. सू. ५/४/७३] इति बहुव्रीहौ डच् । सा तु-दमयन्ती ग्रामाणां सहस्रं भजतीति ग्राम सहस्रभाक् । तथा गीतिः कूटतानेन-कपटविस्तारेण घना-बहुला, दमयन्ती तु न कूटता न घना । अतः कथं तस्या दमयन्त्या गीतिः समा भवेत् । तत्त्वतस्तु-गीतेः षड्जमध्यमगान्धारास्त्रयो ग्रामाः, गान्धारस्य स्वर्गविषयत्वात् द्वावेव इति द्वित्रा: ग्रामाः, तथा कूटताना:-पञ्चत्रिंशत् तैर्घनाः ॥ ५२ ॥ किं चान्यत् ज्वरितेव 'बहुलङ्घनप्रयोगप्रकाशितमूर्च्छना बहुलकम्पा च, उन्मत्तेव बहुभाषा बहुताला३ च, वेश्येव बहुटक्करागा बहुरागा' च, अटवीव बहुककुभभेदा बहुलनिषादस्थानका च गीतिरियम् । किञ्च-पुनरन्यत्-अपरं गीतेः सदोषत्वमाह इयं गीतिः बहुलनं-उद्ग्राहितात् अधिकोच्चारणं यस्याः सा, तथा प्रयोगेउच्चारणे प्रकाशिता-प्रकटिता मूर्छना- उत्तरमन्द्रादिका यस्यां सा, तथा बहुः-प्रचुरः कम्प:अङ्गकृतं स्वरकृतं च चलनं यस्याः सा । केव ? ज्वरितेव-प्राप्तज्वरा स्त्रीव । सा किम्भूता ? बहुलं-घनं शोषणं यस्याः सा, तथा प्रकृष्टा योगा:-क्वाथादयो यस्याः सा, तथा प्रकाशिता मूर्छना-मोहो यया सा पश्चात् कर्मधारयः, तथा बहुः कम्पो यस्याः सा । पुनः किम्भूता इयं १. अवकृष्टकं अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy