________________
४७०
सा च एकविंशतिविधा । यदुक्त म
"सप्त स्वरास्त्रयो ग्रामा मूर्छनास्त्वेकविंशतिः ।
ताना एकोनपंचाशत् तिस्रो मात्रा लयास्त्रयः ॥” [ ]
इति । मूर्छना विभागस्त्वयम्
"उत्तरमन्द्रा राजनी? तृतीया तूत्तरा मता । चतुर्थी शुद्ध षड्जा तु पञ्चमी मत्सरी मता ॥
दमयन्ती - कथा - चम्पू:
"
अश्वक्रान्ता तु षष्ठी स्यात् सप्तमी याभिरुद्गता । स्वरक्रमकृता विद्यात् सप्तैते ३ षड्जमूर्छनाः ' सौवीरी मध्यमा ग्रामे हारिणाश्वा तथैव च । स्याच्छलोपनता चैव चतुर्थी शुद्धमध्यमा ॥ मार्गी च पौरवी चैव दूषका' च यथाक्रमम् ।
सर्वासु" पंच षट् सप्त साधारणकृताः स्मताः ॥” [ ]
एतावता दमयन्तीगीत्योः साम्यमुक्तम् । अधुना तु भेदं निरूपयति । किन्तु परं हे स्वामिन् ! तस्या:-दमयन्त्यास्त्वयि विषये लयः - तत्परता तस्य भङ्गो न दृश्यते, गीतौ तु द्रुतमध्यविलम्बितलक्षणाश्च लयास्तेषां भङ्गो दृश्यत इति ॥ ५० ॥
एवमुक्तवति किंनरे ? किमप्यलीककोपकुटिलोन्नमितरेभ्रूवलयावलितकंधरमवलोक्य किंनरी वक्तुमारभत ।
'सुन्दरक' मा मैवं वादीः ।
एवं - अमुना प्रकारेण किन्नरे उक्तवति सति, किमपि कथञ्चित् अलीककोपेनबहिर्वर्त्यसूयया कुटिलितं - वक्रीकृतं उन्नमितं - उच्चैः कृतं भ्रूवलयं भ्रूचक्रं यत्र एवम्विधा आवलिता-ईषत् पश्चान्मुखी कृता परिवर्तिता कन्धरा - ग्रीवा यत्र अवलोकने एवं यथा भवति तथा किन्नरमवलोक्य किन्नरीवक्तुमारभत ।
हे सुन्दरक ! मा एवं वादी :- अकथयः । मा मेति निषेधेऽव्ययम् ।
शुष्काङ्गी घनचार्वङ्ख्याः सुवाचः काकलीस्वरा । दमयन्त्याः कथं गीतिः सादृश्यमवगाहते ॥ ५१ ॥
शुष्केति । दमयन्त्याः गीतिः कथं सादृश्यं साम्यं अवगाहते प्राप्नोति ? यत:, १. रजनी अनू. । २. उत्तरायते इत्यपि पाठः । ३. सप्तैता: । ४. हृष्यका अनू. । ५. सर्वास्तु अनू. । ६. कुलितं अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org