SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ षष्ठ उच्छ्वासः ४६९ पाणी-करौ यस्याः सा । किम्भूता गीतिः ? वर्द्धमाने-तालविशेषे उल्लसन् रागःश्रीरागादिर्यस्याः सा, तथा शोभना जातयो-नन्दयन्तीप्रभृतयो यस्याः सा, तथा मृदवः पाणयः समपाण्यादयो यस्यां सा ॥ ४८ ॥ अपि च साप्यनेककलोपेता साप्यलंकारधारिणी । सापि हृद्यस्वरालापा कित्वसाधारणा तव ॥ ४९ ॥ अपीति । साऽपि-दमयन्त्यपि अनेकाभिः कलाभिः विज्ञानकौशलैरुपेता-सहिता, तथा साऽपि अलङ्कारैः-आभरणैर्हारिणी-मनोहरा, तथा साऽपि हृद्यः-मनोज्ञः स्वर:-शब्द आलाप:-मिथो भाषणं च यस्याः सा । गीतिस्त्वेवंविधविशेषणावर्तत एव, परं दमयन्त्यपि तथाभूतैव अस्तीत्यपि शब्दार्थः । गीतिपक्षे इयं गीतिस्तु "पताकेनावकृष्टिश्च विरलाङ्गलिता च या । आवाप इति विज्ञेया कलाविद्भिस्तु सा कला ॥" [ ] इत्यावापादयः सप्त कलाः, अनेकाभिः कलाभिरुपेता, तथा अलङ्काराः-उपमारूपकादयः अलङ्कारैर्हारिणी, तथा स्वराश्च-षड्जादयः सप्त आलापश्च-आलप्तिः *"आलप्तिका गानप्रारम्भः" [ ] इत्युणादिवृत्तौ , हृद्याः स्वरालापा विद्यन्ते यस्यां सा । किन्तु-परं दमयन्ती तव असाधारणा-अनन्यविषयत्वात् त्वदेकाश्रया । गीतिस्तु साधारणा स्वरसाधारणा जातिसाधारणा चेति ॥ ४९ ॥ अपि च संगीतका त्वदौत्सुक्यात्त्वां स्मरन्ती समूर्च्छना । किं तु तस्यास्त्वयि स्वामिल्लयभङ्गो न दृश्यते' ॥ ५० ॥ सङ्गीतेति । त्वयि औत्सुक्यं-मिलनोत्कण्ठा त्वदौत्सुक्यं तस्माद्धेतोः सम्यग्गीतं । प्रख्यातिरस्याः संगीतका, सर्वत्र त्वदुक्त्वा सा गीयत इति भावः । तथा त्वां स्मरन्ती सह मूर्छनया वर्तत इति समूर्छना-समोहा । गीतिस्तु सङ्गीतं-स्वरगुणदूषणग्रामयतिश्रुतिमूर्छनालक्षणं यस्यां सा । तथा सह मूर्छनाभिर्विद्यते या सा समूर्छना स्वरः संतर्जितो यत्र रागत्वं प्रतिपद्यते । मूर्छनामिति तां प्राहुर्मुनयो ग्रामसम्भवात् । ★-* चिह्नान्तर्गत पाठो नास्ति अनू. । १. त्वदुक्ता अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy