SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ ४६८ दमयन्ती-कथा-चम्पू: __एवमनवरतमारोहावरोहमूर्च्छनाभङ्गितरङ्गिते गीतामृतस्रोतसि निमग्नमनसि कठोरितोत्कण्ठे रणरणकारम्भभाजि राजनि 'रजनि, किं न विरमसि । दिवस, किं नाविर्भवसि । अध्वन्', किं न स्तोकतां यासि । कुण्डिननगर, किं न नेदीयो भवसि । श्रम, किमन्तरायोऽसि । विधे, किमुत्क्षिप्य न मां तत्र नयसि' इत्यनेकधा चिन्तयति स किंनरयुवा प्रक्रमोचितश्लेषमिदमवादीत् ।। एवं-अमुना प्रकारेण राजनि-नले इति अनेकधा चिन्तयति सति स किन्नरयुवा प्रक्रमास्य-गीतप्रस्तावस्य उचितः-योग्य: श्लेषो यत्र एवम्विधं गीतश्लेषसम्बद्धमित्यर्थः, इदं वक्ष्यमाणमवादीत्-पपाठ । किम्भूते राजनि ? अनवरतं-निरन्तरं आरोहेण च-उच्चैर्ध्वनिना अवरोहेण च-नीचैर्ध्वनिना या मूर्छानाभङ्गिः-स्वरसारणाविच्छित्तिस्तया तरङ्गितमिवजातोर्मीव यत्तत्तस्मिन् । तथाभूते गीतमेव अमृतस्रोतः-पीयूषप्रवाहस्तस्मिन् विषये निमग्नं अन्तर्लीनं मनो यस्यासौ तथा तस्मिन् । तथा कठोरिता-जरठतां प्राप्ता दृढीभूता उत्कण्ठाप्रियां प्रत्यभिलाषो यस्य स तस्मिन् । तथा रणरणकं-औत्सुक्यं तस्य य आरम्भः-उपक्रमस्तं भजति यः स तस्मिन् । इतीति किम् ? हे रजनि ! किं न विरमसि-किं न निर्वर्त्तसे? हे दिवस ! किं न आविर्भवसि-न प्रकटीभवसि ? हे अध्वन् !-मार्ग ! किं न स्तोकतांअल्पत्वं यासि, स्तोकः किं न भवसि ? हे कुण्डिननगर ? ! किं न नेदीयो भवसि-न समीपवति भवसि ? हे श्रम !-खेद ! किं अन्तरायः-विघ्नभूतोसि ? श्रमेणैव तत्र गन्तुं न शक्यते अतोऽन्तरायभूतत्वं तस्येति । हे विधे !-ब्रह्मन् ! मां उत्क्षिप्य-उद्धृत्य तत्र कुण्डिनपुरे' किं न नयसि-प्रापयसि ? येन दमयन्तीमालोकयामीति । अथ किन्नरपठितं सश्लेषपद्यवृन्दमाह वर्धमानोल्लसद्रागा सुजातिमृदुपाणिका । दमयन्ती च गीतिश्च कस्य नो हृदयंगमा ॥ ४८ ॥ वर्द्धमानेति । हे राजन् ! एवम्विधा दमयंती च गीतिश्च कस्य-पुरुषस्य नो हृदयङ्गमा-न हृदयाह्लाददायिनी, हृदये गच्छति-प्रविशतीति हृदयङ्गमा “गमेः सुपि वाच्यः" [पा. वा. कृ.] इति खच् । खित्वान्मुमागमः । “हृद्यार्थं हृदयङ्गमम्" [१/१४६] इति हलायुधः । किम्भूता दमयन्ती ? वर्द्धमानः-वद्धिष्णुः, न तु हीयमान; उल्लसन् रागःअनुरागो यस्याः सा, तथा सुष्ठ-शोभना जाति:-क्षत्रियाख्या यस्याः सा, तथा मृदूः-सुकुमारौ १. कुण्डिननगरे अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy