________________
षष्ठ उच्छासः
४६७ अनेकविधानां विधुरचिन्ताभ्रान्तीनां-दुःखसंकल्पभ्रमाणां या विश्रान्तिः-निवृत्तिस्तस्या हेतु:निबन्धनम् । तथा कर्णयोर्विषये अमृतस्य-सुधायास्तरङ्ग इव-वीचिरिव यः सः, अति मधुरत्वात् । पुनः किम्भूतं ? अति मधुररसस्य निधानं-आश्रयः। आविष्टलिङ्गोऽयम् । अत्र पञ्चमस्येति आख्याने तु पञ्चानां पूरणस्येति व्युत्पत्यर्थम् ।। मालिनी ॥ ४५ ॥ अपि च
अयं हि प्रथमो रागः समस्तजनरञ्जने ।।
यस्य नास्ति द्वितीयोऽपि स कथं पञ्चमोऽभवत् ॥ ४६ ॥ अपि च-पुन:
अयमिति । हि-निश्चितं समस्तानां जनानां रञ्जने-आवर्जने अयं प्रथमः-प्रधानभूतो रागः । यस्य रागस्य द्वितीयः-समानो नास्ति, तथा पञ्चम इति तस्य रागस्य संज्ञा, अपि शब्दो विरोधे, यः प्रथमः-आद्यः यस्य च द्वयोः पूरणो द्वितीयः सोऽपि नास्ति, स कथं पञ्चानां पूरणः पञ्चमः ? इति ॥ ४६ ॥
इति विविधमुदञ्चन्पञ्चमोद्गारगर्भ, पठति मधुरकण्ठे धाम्नि वैतालिकेऽस्य । अपहरति च चित्तं किंनरद्वन्द्वगीते,
सुखमय इव निद्रानिःस्पृहो लोक आसीत् ॥४७॥ ईतीति । अस्य-राज्ञो धाम्नि-मन्दिरे मधुरः-मनोहरः कण्ठः-ध्वनिर्यस्य स तथा तस्मिन्, वैतालिके-मागधे इति-अमुना प्रकारेण विविधं-अनेकविधं, तथा उदञ्चन्-उच्चैः स्वरेणोल्लसन् यः पञ्चमस्योद्गार:-उच्चारः सगर्भ-मध्ये यत्र एवं च यथा भवति तथा पठति सति । च-पुनः किन्नरद्वन्द्वगीतेः चित्तं अपहरति- वशं नयति सति । लोकः सुखमय इव-सुखप्रचुर इव निद्रायां निःस्पृहः-निरभिलाष आसीत्, तद्गान श्रवणरसिकतया न कोऽपि निद्राति स्म इति भावः । 'निद्रामीलित' इति पाठमधिकृत्य टिप्पनकव्याख्येयम्"परब्रह्मालोकनसमयसमुल्लासितसान्द्रानन्दमय इव । रसस्य हि तत्त्वं परब्रह्मास्वादसोदरत्वं पूर्वाचार्येळचार्यत । सुखमय एव निद्रानिमीलित इव आसीदित्युभयत्रापि इव शब्दो योज्यः । अथवा सुखमयः सन् निद्रामीलित इवेतीवशब्दो भिन्नक्रमे ॥" [ ] "कण्ठो ध्वनौ सन्निधाने ग्रीवायां मदनद्रुमे" इत्यनेकार्थः [२/१०४] । मालिनी ॥ ४७ ।।
१. निद्रामीलित अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org