________________
४६६
दमयन्ती-कथा-चम्पू: ददातीत्यर्थः । तथा यत्र स्मरोपि धनुषः स्मरति, यस्मिन् श्रुते कामवृद्धिर्जायत इत्यर्थः । किम्भूतस्य धनुषः । प्रगुणीकृताः-सज्जीकृता निशिता:-तीक्ष्णा बाणा यस्मिंस्तत् तथा तस्य । "अधीगर्थदयेशां कर्मणि" [पा. सू. २/३/५२] इति स्मृत्यर्थयोगे कर्मणि षष्ठी ।। ४३ ।।
एवंविध व्यतिकरे' वैतालिकः पपाठएवम्विधव्यतिकरे-गानप्रस्तावे वैतालिक:-मागधः पपाठ ।
सकलविषयवृत्तीर्मुद्रयन्निन्द्रियाणां, हदि विदधदवस्थां कांचिदन्मादनीं च । ध्वनिरनुगतवीणानिक्वणः कोमलोऽयं,
जयति मदनबाणः पञ्चमः पञ्चमस्य ॥ ४४ ॥ सकलेति । अयं पञ्चमस्य-रागस्य' ध्वनिर्जयति । किम्भूतो ध्वनि: ? पञ्चानां पूरणः पञ्चमो मदनबाण:-उन्मादनलक्षणः। कामस्य हि पञ्चबाणा:-१ मारण २ शोषण ३ तापन ४ मोटन ५ उन्मादनाख्याः । अथोन्मादनस्वरूपमेवाह-किंकुर्वन् ? इन्द्रियाणां सकला विषयवृत्ती:-विषयव्यापारान् मुद्रयन्, अन्येषु विषयेषु रूपादिषु इन्द्रियवृत्तिं निषेधयन् । तथा च-पुनः हृदि- चेतसि काञ्चिद्-वक्तुमशक्यां उन्मादिनी-उन्मादजनयित्री अवस्थां-दशां विदधत्-कुर्वत् । तथा अनुगतः-अनुप्रतितो वीणानिक्वणः-विपञ्चीस्वरो यस्य सः । तथा कोमल:-मृदुः । मालिनीवृत्तम् ॥ ४४ ॥
अपि च
प्रियविरहविषादस्यौषधं प्रोषितानांविविधविधुरचिन्ताभ्रान्ति विश्रान्तिहेतुः । अयममृततरङ्गः कर्णयोः केन सृष्टो,
मधुररसनिधानं निःस्वनः पञ्चमस्य ॥ ४६ ॥ अपि च-पुन:
प्रियेति । अयं श्रूयमाणः पञ्चमस्य निस्वनः-ध्वनिः, केन सृष्टो ? -निर्मितः । किम्भूत ? प्रोषितानां-वियुक्तानां प्रियस्य- वल्लभस्य विरहे-वियोगे यो विषादः-मनःपीडा तस्य औषधं अगदः पञ्चमरागे श्रुते विरहिविरहव्यथा निवर्तत इत्यर्थः । तथा विविधानां
१. पञ्चमरागस्य अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org