SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ ४६५ षष्ठ उच्छ्वासः - स्थिरीकृतमध्यम श्रुतिप्रसन्नप्रे डोलनाप्रयोगमुचितस्थानकृतकम्प 'मकठोरतारस्वरम्, आकर्षदिव हृदयम्, अभिषिञ्चदिवामृतेन श्रवणेन्द्रियम्, अस्तंनयदिवान्यविषयवेदनम् ३, अनुच्चप्रपञ्चितपञ्चमं विपञ्चीस्वरसंदर्भितमभूत्तत्किमपि गीतम् । राज्ञा आदिष्टे सति किमपि अद्भुतं गीतमभूच्च । क्व सति ? वांशिकेन - वंशवादनं शिल्पमस्येति वांशिकस्तेन वंशवादकेन वंशमुखेन - वेणुच्छिद्रेण उद्गीर्णं उद्गीतं यत् गान्धारपञ्चमरागस्थानकं तस्मिन् दर्शिते च सति । किम्भूतं गीतम् ? स्थिरीकृतानिश्चलीकृता या मध्यमश्रुतिस्तया प्रसन्नः - विशदः प्रेङ्खोलनाप्रयोग - घोलनाव्यापारो यत्र तत् । श्रुतयो द्वाविंशतिस्तद् विभागस्त्वियम् " षड्जत्वेन गृहीतो यः षड्जग्रामे ध्वनिर्भवेत् । तत ऊर्ध्वं तृतीयः स्यात् ऋषमो नात्र संशयः ॥ [ ] ततो द्वितीयो गान्धारश्चतुर्थो मध्यमस्ततः । मध्यमात् पञ्चमस्तद्वत् तृतीयो धैवतस्ततः ॥ [ ] निषधोऽतो द्वितीयस्तु ततः षड्जचतुर्थकः । पञ्चमो मध्यमो नाम मध्यमान्तस्तृतीयकः ॥” [ ] इति । तथा उचितस्थाने कृतः कम्पः - कम्पनं यत्र तत् । तथा अकठोर:-मृदुस्तारःउच्चस्वरो यत्र तत् । तथा हृदयं - चेत आकर्षदिव वशीकुर्वदिव । तथा श्रवणेन्द्रियं अमृतेनपीयूषेण अभिषिञ्चदिव - स्नपयदिव आह्लादजनकत्वात् । तथा अन्येषां - शब्दव्यतिरिक्तविषयाणां रूपादीनां सम्वेदनं ज्ञानं अस्तंनयदिव - अपाकुर्वदिव, इदं शृण्वतः सतोऽन्यविषयपरिच्छेदो न जायते, मनसोऽत्रैव आसक्तत्वात् । तथा अनुच्चं - मन्दं यथा भवति तथा प्रपञ्चित:-विस्तारितः पञ्चमो रागो यत्र तत् । तथा विपञ्ची-वीणा तस्यां स्वरेण सन्दर्भितं- - युक्तम् I यत्र प्रसरति रणरणकरसः कुण्ठयति हठेन चित्तमुत्कण्ठा । स्मरति स्मरोऽपि धनुषः प्रगुणीकृतनिशितबाणस्य ॥ ४३ ॥ यत्रेति । यत्र गीते श्रुते सति रणरणकरसः - उत्कण्ठारसः प्रसरति - प्रवर्तते । तथा यत्र च' उत्कण्ठा-वाञ्छा हठेन- बलात्कारेण चित्तं कुण्ठयति - प्रतिबध्नाति, अन्यत्रगन्तुं न Jain Education International १. च नास्ति अनू. । For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy