________________
दमयन्ती - कथा - चम्पूः
शिबिमिव-शिबिनृपमिव । किम्भूतं शिबिम् ? शरणार्थं - स्वरक्षार्थं आगतः कपोतो यस्मिन् स तम् । तथा ऊर्ध्वं कपोतस्य उपरि पतितो य उलूकस्तस्य निवारणाय कृतः शब्दो - 'मा घातय' इति रूपो ध्वनिर्येन स तम् । नारदकृतां शिबिनृपप्रशंसामसूयन्तौ कपोतोलूकरूपधारिणौ सुरौ सत्त्वं जिज्ञासमानौ शिबिनृपमागतौ इत्यागमः ।
तत्र च क्रमेण कृतकरणीयस्त्वरमाणपाचकवृन्दारकोपनीत १
४६४
मुत्पतत्पाकपरिमलस्पृहणीयमत्युष्णमेदुरमांसोपदंसमाज्यप्राज्यमुपभुज्य पुष्कराक्षकिंनरमिथुनाप्तजनैः २ सह मधुररससारमाहारम्, अनन्तरमाचान्तः शुचिचन्दनोद्वर्त्तितकर 'कमलं कर्पूरपारीपरिकरित' ताम्बूलोज्ज्वलवदनारविन्दः 'सुन्दरक, कमपि प्रस्तारय विद्याविनोदं त्वयापि अयि विहंगवागुरिके, गीयतां किमपि मधुरम्' इति मृदुपर्यङ्किकासुखासीनः किंनरमिथुनमादिदेश ।
ब
तत्र- शिबिरसन्निवेशे क्रमेण परिपाट्या कृतं करणीयं सन्ध्यावन्दनादिकं येन स एवम्विधः सन् नलः पुष्कराक्षश्च किन्नरमिथुनं च आप्तजनाश्च -: - श्रुतशीलाद्यास्तैः सह मधुररसेनमृष्टास्वादेन सारं-प्रधानं आहारं उपभुज्य, अनन्तरं - पश्चात् आचान्तो- गृहीताचमनो अतएव शुचिः-पवित्रः, तथा चन्दनेन - चन्दनद्रवेण उद्वर्तितं - रूक्षीकृतं करकमलं येन सः, तथा कर्पूरस्य- पारीशकलं तेन परिकरितं - सहितं यत्ताम्बूलं तेन उज्ज्वलं - मनोहरं वदनारविन्दं यस्य स, तथा मृद्व्यां-सुकुमारायां पर्यङ्ककायां- आसनविशेषे सुखेन आसीनः -स्थितः सन् किन्नरमिथुनं इति आदिदेश - आज्ञापयति स्म । किम्भूतं आहारम् ? त्वरमाणा :- शीघ्रं आगच्छन्तो ये पाचकवृन्दारकाः - सूपकारमुख्याः तैरुपनीतं - उपढौकितं, तथा उत्पतन्-ऊर्ध्व गच्छन् य: पाकस्य अन्नादिपचनस्य परिमल: - आमोदस्तेन स्पृहणीयं- अभिलषणीयं, तथा अत्युष्णं मेदुरं-मांसलं यन्मांसं - पलं उपदंशाश्च - अवदशास्ते विद्यन्ते यस्मिन् स तथा तम् । उपदिश्यते पानरुचिजननार्थमित्युपदंशः मद्यपस्य अशनं खरविशदमभ्यवहार्यम्, शाकमित्यर्थः, तथा आज्येन - घृतेन प्राज्यं - प्रचुरं बहुघृतयुतमित्यर्थः । इतीति किम् ? हे सुन्दरक ! कमपि विद्याविनोदं - शास्त्रकौतुकं प्रस्तावय - विधेहि प्रारभस्व । अपि इति कोमलामन्त्रणे, हे विहङ्गवागुरिके ! किमपि अद्भुतं मधुरं त्वया गीयताम् - रागवद्ध्वनिना उच्चार्यताम् । “अयि प्रश्ने अनुनये स्यात् " [ अनेकार्थ. परि. ४८]।
दर्शिते च वांशिकेन वंशमुखोद्गीर्णगान्धारपञ्चमरागस्थानके
१. करकमलयुगलं अनु. ।
Jain Education International
For Personal & Private Use Only
•
www.jalnelibrary.org