________________
४६०
दमयन्ती-कथा-चम्पू: रत्नकान्तिभिः फलितं पश्चात् कर्मधारयः । तथा लिखितानि अक्षराणि येन तत् । अनया आशिषा पाणिग्रहणं सूचितम् ॥ ३९ ॥ अनया च
तव सुभग रम्यदशया तयेव' रक्तान्तनेत्रमण्डनया ।
चीनांशुकयुगलिकया क्रियतामङ्गे परिष्वङ्गः ॥ ४० ॥ अनया चेति । हे सुभग ! चक्षुष्य ! अनया चीनांशुकस्य-चीनदेशोद्भववाससो युगली-युग्मं चीनांशुकयुगली सैव चीनांशुकयुगलिका तया तयेव-दमयन्त्येव तव अङ्गे परिष्वङ्गः-आश्लेषः क्रियताम्, यथा त्वया' परिष्वङ्गः करिष्यते तथा अनया अपि क्रियताम्, इयं परिधीयतामित्यर्थः । किम्भूतया चीनांशुकयुगलिकया ? रम्या दशा वस्त्रान्तसूत्रं यस्याः सा तया । तथा रक्तोऽन्तः-अवसानं यस्य एवंविधं यन्नेत्रंचित्रवस्त्रविशेषस्तदेव मण्डनं-अलङ्करणं यस्याः सा तया । किम्भूतया तया ? रम्यारमणीया दशा-अवस्था यस्याः सा तया । तथा रक्तो अन्त:-पर्यन्तो ययोस्ते रक्तान्ते एवम्भूते नेत्रे-अक्षिणी मण्डनं यस्याः सा तया, पद्मिनीजातित्वात् रक्तान्तनेत्रत्वम् ।। ४० ।। अयं च
उज्ज्वलसुवर्णपदकस्तस्याः संदेशकथनदूत इव ।
रुचिरमणिकर्णपूरः श्रयतु श्रवणान्तिकं भवतः ॥ ४१ ॥ अयञ्च
उज्ज्वलेति । तस्याः-दमयन्त्या अयं रुचिरा मणयो यत्र एवम्विधः कर्णपूरःअवतंसः भवतः श्रवणयोः-कर्णयोरन्तिकं- समीपं श्रयतु, कर्णयोनिधीयतामित्यर्थः । क इव? तस्याः-दमयन्त्याः सन्देशाः-उदन्तास्तेषां कथनाय दूतः सन्देशकथनदूतः स इव, यथा स दूतः श्रवणान्तिकं नीयते तथाऽयमपि । किम्भूतो रुचिरमणिकर्णपूरः ? उज्ज्वलं सुवर्ण पदं-स्थानकं यस्य स, सुवर्णाश्रित इत्यर्थः । किम्भूतो दूतः ? उज्ज्वलानि-अग्राम्याणि शोभनवर्णानि पदानि-वचनानि यस्य स उज्ज्वलसुवर्णपदकः ॥ ४१ ।।
किंचान्यत्
आनन्ददायिनस्ते कुण्डिननगरे कदा भविष्यन्ति । त्वन्मुखकमलविलोलनागरिकानयनषट्पदा दिवसाः ॥४२॥
१. तया अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org