SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ षष्ठ उच्छासः ४५९ मदीयमिदमिति आत्मसात्करणेन अनुगृह्यतां - अनुग्रहः- प्रसादः क्रियतां, इत्यभिधाय तस्मिन्-पुष्कराक्षे विश्रान्ता वाक् यस्य स तस्मिन् मौनं भजमाने सति, स इति दमयन्त्याः प्रेषित: किन्नरयुवा किमपि किञ्चित् उपसृत्य - राज्ञः समीपमागत्य' मृगमदेन- कस्तूरिकाद्रवेण मिलत्-संयुज्यमानो यो मलयजरसः - चन्दनद्रवस्तेन उल्लासिनी - शोभनशीला या लेखा-रेखा तथा लाञ्छितः - अङ्कितो यो ललाटपट्टः- अलिकफलकस्तस्मिन् अर्पितं न्यस्तं करकमलमुकुलं संयोजित कुब्जितपाणियुगं येन सः एवम्विधः सन् प्रणत्या - राज्ञो नमस्कारेण प्रेङ्खितः-कम्पितो मणिखचितः कर्णयोरवतंसः - कर्णपूरो यस्याः सा तथा प्रियया किन्नर्या सह प्रणाममकरोत् नमश्चकार । अथ स्तुतिपूर्वकं तद्दत्तप्राभृतं यथा तद्ददौ, तथाह लब्धार्धचन्द्र ईशः कृतकंसभयं च पौरुषं विष्णोः । ब्रह्मापि नाभिजातः केनोपमिमीमहे नृप भवन्तम् ॥ ३८ ॥ लब्धेति । हे नृप ! भवन्तं केन उपमिमीमहे - केनोपमानं दद्महे । कथम् ? यतो भवत उपमानं शम्भुविष्णुब्रह्मणामेव घटते । ते च एवम्विधास्तद्यथा - ईश:- शम्भुः लब्ध:प्राप्तो अर्धचन्द्र:-गलापहस्तनं येन सः एवंविधः । तथा विष्णोः पौरुषं - विक्रमः कृतकं - कृत्रिमं तथा सभयं - भयान्वितं च । तथा ब्रह्मापि न अभिजात:- कुलीनो न । अतस्तव केनोपमानम् ? इति निन्दाभासपक्ष:- । स्तुतिपक्षे तु—अर्धे चन्द्रस्य अर्धचन्द्रः शशिकलालब्ध: अर्धचन्द्रो येन स एवम्विध ईश: । तथा कृतं कंसस्य भयं येन तत् एवंविधं विष्णोः पौरुषं । तथा वैष्णवनामेर्जातो ब्रह्मा ॥ ३८ ॥ इदं च अरुणमणिकिरणकलि 'तलिखिताक्षरमङ्गलीयकाभरणम् । तस्याः करकिसलयमिव तव करकमले चिरं लगतु ॥ ३९ ॥ इदं चेति । हे नृप ! इदं च अङ्गुलीयकाभरणं तस्याः -दमयन्त्याः करकिसलयमिव-पाणिपल्लव इव तव करकमले चिरं चिरकालं लगतु - आश्लिष्यतु, यथा तस्याः करकिसलयं त्वत्करे लगिष्यति तथेदमपि लगतु । किम्भूतं अङ्गुलीयकाभरणं ? अरुणमणिः-पद्मरागादिस्तस्य किरणैः - अंशुभिः कलितं - सहितं । तथा लिखितान्यक्षराणि यस्मिन् तत् लिखिताक्षरं । किम्भूतं करकिसलयं ? अरुणं तथा मणिकिरणैः-अरुण १. समीपं समागत्य अनू. । Jain Education International For Personal & Private Use Only www.jalnelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy