SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ ४५८ दमयन्ती-कथा-चम्पू: तथा ऋचां आचार्यकम् । तथा कलादिभेदानां आलयः-आश्रयः । वर्द्धमानान्यासारितकानि पाणिकाः सामानि ऋचः । कलादिभेदाश्च गीतविषया भरतशास्त्राद् गम्याः । तथा गीत्यामपि सरसं-समाधुर्यं तथा स्वराः-मध्यमादयस्तेषां ये आलापा:- भाषणानि तेषु सुस्वरं शोभनध्वनिः । तथा षड्जमध्यमगान्धारास्त्रयो ग्रामास्त एव रागास्तेषु अग्राम्यं-उचितं, निपुणमित्यर्थः । तथा भाषा: षट्त्रिंशत्तासु विचित्रा-नानाविधा भाषा-भाषणं यस्य तत् । तथा नर्तकीनां प्रवर्तकं-प्रवर्त्तयितृ । तथा करणानि-तलपुष्पपुटादीनि अष्टोत्तरशतसंख्यानि तेषां यो मार्गः-पद्धतिस्तस्य कारणम् । तथा वाद्येष्वपि-आतोद्येष्वपि वीणावेणुषु प्रवीणंचतुरम् । तथा पटहेषु लब्धं पाटवं-पटुत्वं येन तत् । तथा झल्लरीषु अप्रतिमल्लं-असदृशम् । किबहुना कालमिव कलाबहुलं सर्वरसानुप्रवेशि लवणमिव । तव नृप सेवां कर्तु किंनरयुगलं तया प्रहितम् ॥ ३७ ॥ किम्बहुना-किम्बहूक्तेन कालमिति । हे नृप !-राजन् ! तव सेवां कर्तुं तया दमयन्त्या इदं किन्नरयुगलं प्रहितं-प्रेषितम् । किम्भूतम् ! कला:-गीतवाद्याद्याः मुहूर्तभेदाश्च तां विदन्ती अधीयन्ते' वा, काला:-कलाविदस्तेषां समूहः कालं तदिव कलाबहुलं । तद्यथा-कलायां-शास्त्रविषये बहुलं तन्निष्ठं भवति तथेदमपि समग्रकलाप्रवीणं । तथा लवणभिव सर्वरसानुप्रवेशि, यथा लवणं सर्वे च ते रसाश्च तिक्ताद्यास्तान् अनुप्रविशतीत्येवंशीलं सर्वरसाभिव्यञ्जकत्वात् तथा इदमपि सर्वे च ते रसाश्च शृङ्गाराद्यास्तान् अनुप्रविशतीति सर्वरसानुप्रवेशि तदभिज्ञत्वात् । समयार्थे तु कालशब्दे पुंस्त्वं स्यात् । यदा तु 'काल इव कलाबहुलं' इति पाठस्तदा काल: कलाभि:-निमेषोन्मेषाद्यंशरूपाभिर्बहुल:-व्याप्तः । इदं तु कलाभिः-गीतनृत्यादिभिर्व्याप्तं । काल:-अवसरः, आत्मसमर्पणाय अवसर इव प्रेषित इति भावः ॥ ३७ ।। 'तदेतदात्मपरिग्रहेणानुगृह्यताम्' इत्यभिधाय विश्रान्तवाचि तस्मिन्स किंनरयुवा किमप्युपसृत्य मृगमदमिलन्मलयजरसोल्लासिले खालाञ्छितललाटपट्टार्पितकरकमलमुकुलं' प्रणतिप्रेखितमणिकर्णावतंसतया सह प्रियया प्रणाममकरोत् ।। तत्-इत्युपसंहारे । तस्मात् एतत् किन्नरमिथुनं आत्मनः परिग्रहेण-स्वीकारेण १. अधीयते अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy