SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ षष्ठ उच्छ्वासः बुद्धं तत्तयापि बुद्धमितिभावः । तत्-तस्मात् त्वं एहि-आगच्छ । अस्मिन् राजनि-नले चक्षुर्निर्वापय- शीतली कुरु । किम्भूते राजनि ? दमयन्त्या मनोरथाः - अभिलाषा एव पान्थास्तेषां पिपासां - उदन्यां छिनत्तिअपनयतीति तस्मिन्, यथा जलाशये पान्थस्य पिपासा छिद्यते तथा अस्मिन् नले दृष्टे दमयन्तीमनोरथपिपासा छिद्यते, भैमीमनोरथाः पूर्यन्त इति भावः । यद्वा, दमयन्तीमनोरथा एव पान्थपिपासा तां छिनत्तीति तस्मिन् । पुनः किम्भूते ? लावण्यस्य - सौन्दर्यस्य पुण्यःपवित्रो ह्द इव-जलाधारविशेष इव यः सः तस्मिन् हृदस्य निर्वापणकारणत्वात् चक्षुर्निर्वापणं तत्र घटत एव । इति- अमुना प्रकारेण किन्नरमिथुनमभिमुखीकृत्य- - राज्ञ: सम्मुखं विधाय पुष्कराक्षो नरपतिं नलमवादीत् । ४५७ 'देव, तदेतत्किनरमिथुनम् इदं हि द्वितीयमिव हृदयं देव्याः, प्रियं प्राणेभ्योऽपि प्रेम्णा प्राभृतमेतत्प्रहितं तुहिनाचलचक्रवर्तिना' परमं पात्रं मन्त्रगीतेः । तथाहि-जातख्याति जातिषु, गीतयशो गीतकेषु, वर्धितमानं वर्धमानेषु, सारमासारितकेषु, निपुणं पाणिकासु, धाम साम्नम्, आचार्यकमृचाम्, आलय: कलादिभेदानाम्, स्वरसंगीत्यामपि सुस्वरं स्वरालापेषु, अग्राम्यं ग्रामरागेषु, विचित्रभाषं भाषासु, प्रवर्तकं नर्तकीनाम्, कारणं करणमार्गस्य, वाद्येष्वपि प्रवीणं वीणावेणुषु, लब्धपाटवं पटहेषु, अप्रतिमल्लं झल्लरीषु । हे देव ! तत्-इति पूर्वं यन्मया भवतामुक्तमासीत् तत् एतत् प्रत्यक्षं - किन्नरमिथुनं । इदं किन्नरमिथुनं हि-निश्चितं देव्या: - दमयन्त्या द्वितीयं हृदयमिव प्रियत्वात् । तथा प्राणेभ्योपि - असुभ्योपि सकाशात् प्रियं इष्टं, प्राणेभ्योप्यधिकमित्यर्थः । तथा प्रेम्णा - स्नेहेन तुहिनाचलस्य-हिमाचलस्य चक्रवर्तिना नृपेण एतत् किन्नरमिथुनं प्राभृतं-ढौकनं प्रहितं-प्रेषितं भीमायेति शेषः । तथा मन्त्रा गीयन्ते अस्यामिति मन्त्रगीतिस्तस्याः मन्त्रगीतेः परमं पात्रं । तथाहीति । ते देवकिन्नरमिथुनं व्याख्यानयन्नाह - किम्भूतं किन्नरमिथुनं ? जातयःनन्दयन्तीप्रभृतयस्तासु जाता - भूता ख्यातिः - प्रसिद्धिर्यस्य तत्, तत्र कुशलमित्यर्थः । तथा गीतकेषु-गानेषु गीतं-ख्यातं यशो यस्य, तत्प्रकृष्टगानकृदित्यर्थः । तथा वर्द्धमानेषु वर्द्धितःअधिकीभूतो मान:-चित्तोन्नतिर्यस्य तत् । "मानश्चित्तोन्नतौ ग्रहे” [३ / २८१] इत्यनेकार्थः । तथा आसारितेषु सारं-प्रधानं । तथा पाणिकासु निपुणं - रक्षम् । तथा साम्नां धाम- गृहम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy