________________
४५४
दमयन्ती-कथा-चम्पू:
'विपिनोद्देशं सरसं केतकमकरन्दवासितवियत्ककुभम् । ग्राममिमं वा सर संकेतकमकरन्दवासितवियत्ककुभम् ॥ ३४ ॥
विपिनेति । हे प्रिय ! इमं प्रत्यक्षग्राह्यं विपिनोद्देश-काननप्रदेशं, वा-अथवा इमं पुरोवर्तिनं ग्रामं सर-व्रज । किम्भूतं विपिनोद्देशम् ? सरसं-सजलं वियच्च-नभः ककुभश्चदिशो वियत्ककुभः केतकमकरन्देन वासिता:-सुरभिताः वियत्-नभःककुभो येन स तं । किम्भूतं ग्रामम् ? संकेतयति-निवासयति अनुकूलत्वान्निवासहेतुर्भवतीति संकेतकं, तदेवानुकूल्यमाह । पुनः किम्भूतम् । न विद्यते कर:-राजग्राह्यो अंशो यत्र तं, पर्वतीयत्वात् अकरं । तथा आसनमासितं सद्भावः दवस्य आसितान् वियन्तः-विश्लिष्यन्तः ककुभाःतरवो यत्र तं । यदि वा "षिञ् बन्धने" [पा. धा. १२४९] आपूर्वस्य आसयनमासितं आबन्ध इत्यर्थः । यद्वा, सिताः-सम्बद्धाः दवेन आसिता:-असम्बद्धा वयः-पक्षिणो यत्र, तथा यत् वहत् कं-पयो यस्यां सा चासौ कुश्च तया भातीति यत्ककुभः, पश्चात् कर्मधारयस्तं, इणः शतृ ङि यत् [इणो यण, पा. सू. ४/८१]वहदित्यर्थः ॥ ३४ ॥
तदनु पुनस्तां प्रतिवादिना किंनरेण च पठ्यमानामिमामार्यामश्रौषीत् ।
तदनु-तस्याः-किन्नर्या आर्यागीतेः कथनादनु-पश्चात् पुनस्तां प्रति-किन्नरीमभिवदितुं शीलं यस्यासौ तत्प्रतिवादी तेन-तत्प्रतिवादिना किन्नरेण च पठ्यमानां-कथ्यमानां इमां-आर्यां अश्रौषीत् । किञ्चिन्नराः किञ्चित्पक्ष्यश्वादिरूपमिश्राः किन्नराः । तामेवाह
अजनि रजनिः किमन्यत्तरणिस्तरतीव पश्चिमपयोधौ । घनतरुणि तरुणि विपिने क्वचिदस्मिन्नेव निवसावः ॥ ३५ ॥
अजनीति । हे तरुणि ! रजनिः अजनि-जज्ञे । अन्यत् किम्- अपरं किं उच्यते ? तरणिः-सूर्यः पश्चिमपयोधौ-पश्चिमसमुद्रे तरतीव-उन्मज्जतीव तस्मात् अस्मिन्नेव विपिनेवने क्वचित् प्रदेशे आवां निवसाव:-तिष्ठावः । किम्भूते विपिने ? घना:-बहवस्तरवो यस्मिन् तत्तस्मिन् घनतरुणि "नामिनः स्वरितोऽन्तः२" [ ] ॥ ३५ ॥
एवमन्योन्यालापमाकर्ण्य किन्नरमिथुनस्य विस्मितो नरपतिः अहोमाननीयमहिमोद्दामा दमयन्ती यस्याः परिचारिणः पक्षिणोऽपि श्रवणस्पृहणीयामेवंविधसुभाषितामृतमुचं वाचमुच्चारयन्ति ।
१. यत् नास्ति अनू. । २. स्वरेनोन्तः अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org