________________
४५५
प्रथममिह तावदाभिजात्यवित्तविद्याविवेकविभवैरनाकुले कुले जन्म ततोऽप्य'सरूपसंपत्तिस्तदनु श्लाध्यानुगुणगुणलाभस्ततोऽपि च २सुविदग्धस्निग्धपरिजनावाप्तिरिति महती भाग्यपरम्परा' इति चिन्तयन्नातिदूरवर्तिनः ३ पुष्कराक्षस्य मुखमवलोकयांचकार ।
षष्ठ उच्छासः
एवं अमुना प्रकारेण किन्नरमिथुनस्य अन्योन्यं परस्परं प्रश्नोत्तररूपं आलापं आकर्ण्य-श्रुत्वा विस्मितः-साश्चर्यो नरपति: - नल इति चिन्तयन् सन् नातिदूरे वर्तितुं शीलं यस्य स तस्य नातिदूरवर्तिनः - समीपस्थितस्य पुष्कराक्षस्य मुखं अवलोकयाञ्चकार - ददर्श । इतीति किम् ? अहो ! इति आश्चर्ये । माननीयेन-पूजनीयेन उत्कृष्टेनेत्यर्थः, महिम्नाअनुभावेन उद्दामा - उत्कटा दमयन्ती यस्या दमयन्त्याः परिवृण्वन्ति - परिकुर्वन्तीत्येवंशीलाः परिवारिणः परिवारभूताः पक्षिणोऽपि - विहगा अपि श्रवणयोः स्पृहणीयां-अभिलषणीयां श्रव्यामित्यर्थः । एवंविधं श्लिष्टार्थं सुभाषितं आर्याद्वयरूपमेव अमृतं मुञ्चति - श्रवतीति, एवंविधं सुभाषितामृतमुक् तां वाचं - वाणीमुच्चारयन्ति ।
तथा यस्याः प्रथमं-पूर्वं इह अस्मिन् कुले जन्म । किम्भूते कुले ? आभिजात्यंकुलीनता वित्तं च-धनं विद्याश्च - आन्वीक्षिक्यादयः विवेकश्च - हेयोपादेयविमर्शस्तैरनाकुलेसुस्थिते, कौलीन्यादि सम्पूर्णे इत्यर्थः । आभिजात्यादीनि तु अहङ्कारकृत वैक्लव्यस्य कारणानि भवन्ति । कुले तु एभिरनाकुले इति । ततोपि एवंविधकुले जाताया अप पसम्पत्तिः कुतः ? परं यस्या असरूपा - असदृशी रूपसम्पत्तिः - सौन्दर्यसम्पत् । अथ रूपसम्पत्तौ जातायामपि गुणलाभः कुतः ? परं यस्याः तस्याः रूपसम्पत्तेरनु-तदनु श्लाघ्यानुगुणः-प्रशंसानुरूपः श्लाघ्य इत्यर्थः । एवम्विधो गुणानां औदार्यादीनां लाभ:प्राप्ति: । अथ गुणप्राप्तावपि सुसहायसंपत् कुत: ? परं यस्याः ततोऽपि गुणलाभात् पश्चादपि सुविदग्ध: - श्लेषोक्तिषु छेकः स्निग्धः - स्नेहलो यः परिजनः - परिवारस्तस्य अवाप्तिःप्राप्तिरिति । उक्तप्रकारेण महती - गुर्वी भाग्यस्य - भागधेयस्य परम्परा - परिपाटी ।
नरपतिना पुष्कराक्षस्य मुखेऽवलोकिते सतिः
पुष्कराक्षोऽपि पुरस्कृत्य तं किंनरमभाषत ।
'सुन्दरक, कान्तामुखावलोकनासक्तः समीपमागतानप्यस्मान्न
पश्यसि ।
तदितो दत्तदृष्टिर्भव |
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org