________________
४५३
षष्ठ उच्छ्वासः शिलान्तरालप्रदेशे, प्रियतममुद्दिश्य पठन्त्याः किंनर्याः साश्चर्यमार्यागीतिमिमशृणोत् ।
इति-अमुना प्रकारेण अभिधाय-उक्त्वा मुनिपुङ्गवेषु व्यावृत्तेषु-व्याघुट्य गतेषु सत्सु, कौतुकात्-कुतूहलात् इतस्तत:-एवम्विधेषु स्थानेषु सानुचर:-अनुचरैः सहितश्चरन्-विहरन् सन् नलः एकस्मिन् अतिनिबिड:-अतिघनः सन्धेः-संश्लेषस्य सन्निवेशः-संस्थानं यस्मिन्, अत्यर्थं सम्मिलिते इत्यर्थः, एवंविधे शिलयोरन्तरालप्रदेशे-मध्यप्रदेशे प्रियतमं-पतिं किन्नरंकिंपुरुषं उद्दिश्य-अधिकृत्य पठन्त्याः किन्नर्याः इमां-वक्ष्यमाणां आर्यागीतिछन्दोविशेषनिबद्धं पद्यं साश्चर्य-साद्भुतं यथा भवति तथा अशृणोत्-अश्रौषीत् । केषु केषु स्थानेषु चरन् ? इत्याह-वनेषु चरन् । किम्भूतेषु वनेषु ? सञ्चरद्-विचरद् चटुलं-चपलं यत् षट्चरणचक्रं-भृङ्गवृन्दं तेन का चुम्बने-आस्वादने यदाकूतं-अभिप्रायस्तेन साधनभूतेन तरलितानि कम्पितानि यानि पुष्पाणि तेषां यत्परागपटलं-रजोवृन्दं तेन पांसुलितानिसरेणूकृतानि तरुतलानि येषां तानि तथा तेषु । पुनः किम्भूतेषु वनेषु ? वहन् सुरभिःसुगन्धिः शिशिरः-शीतलः कोमल:-मन्दः पवन:-वायुर्येषु तानि तथा तेषु । तथा एवम्विधेषु कूलेषु-नदीतटेषु चरन् । किम्भूतेषु कूलेषु ? वनेचरमिथुनानां या मन्मथक्रीडासुरतकेलिस्तस्या अनुकूलेषु-प्रवर्तकेषु रम्यत्वात् । तथा पुलिन्दडिम्भकैः शबरार्भकैः अध्यासितासु-आश्रितासु । कासु ? फलवद् बदरीषु, न केवलं फलवद्बदरीषु, तथा दरीषु सञ्चरन् । अत्र चकारादिमन्तरेणापि समुच्ययः स्यादेव, यथा माघे दशमसर्गे
"सावशेषपदमुक्तमुपेक्षा स्रस्तमाल्यवसनाभरणेषु ।
गन्तुमुत्थितमकारणतः स्म द्योतयन्ति मदविभ्रममासाम् ॥" [१०/१६] "सावशेषाणि-ऊनानि पदानि यत्र तत् अर्थोक्तपदं उक्तं-कथितं वचनं, तथा स्त्रस्तमाल्यवसनाभरणेषु उपेक्षा-अग्रहः, तथा अकारणं-निःप्रयोजनमेव गन्तुं उत्थितं गमनाद्युत्थानं, एते पदार्थाः आसां अङ्गानानां मदविभ्रमं-मद्यपानविलासं द्योतयन्ति स्म-प्रकटीचक्रुः ।" [ ] अत्र स्थानत्रयेऽनुक्तमपि चकारद्वयमवसेयम् । अध्यासितासु इति उभयत्र योज्यः, तेन च फलवन्त्यो बदों यासु इति दरीविशेषणं । "नवृदन्ताबहुव्रीहौ कः" [ ] इति कप्रत्यस्य दुनिवारत्वात् बाहुलकाश्रयणात् क प्रत्ययाभाव इति तु न युक्तं। तथा निकुञ्जेषु-वृक्षगहनेषु चरन् । किम्भूतेषु निकुञ्जेषु ? पुञ्जिता:-मिलिताः कुञ्जरा:-स्तम्बेरमा । येषु तथा तेषु । तथा सानुषु-गिरिशिखरेषु चरन् । किम्भूतेषु सानुषु ? दुर्दर्श:-उच्चत्वात् द्रष्टुमशक्यो भानुः-सूर्यो येषु यैर्वा तानि तथा तेषु ।।
अथ किन्नर्योक्तामार्यागीतिमाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org