SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ ४५२ दमयन्ती-कथा-चम्पू: चक्रेति । हे मुनयः ! यूयं पयोष्णीतटं भजत । किम्भूतं पयोष्णीतटम् ? चक्रधरंचक्रवाकधरं, तथा विषमाक्ष-विषमबिभीतकं, तथा कृतो मदेन-हर्षेण कलैः-मधुरध्वनिभिः राजहंसैः सञ्चारः-गमनं यस्मिन् तत् । पुनः किम्भूतं पयोष्णीतटम् ? हरिहरवि रिञ्चिभिःविष्णुशम्भुब्रह्मभिः सदृशं-समानं । किम्भूतं हरिम् ? चक्र-सुदर्शनं धारयतीति चक्रधरम् । किम्भूतं हरम् ? विषमाणि अक्षीणि यस्येति विषमाक्षं, त्रिनेत्रत्वात् । किम्भूतं विरिञ्चिम् ? कृतो मदकलराजहंसेन कृत्वा सञ्चारः-गमनं येन स तं, हंसवाहनत्वात् ।। ३२ ।। ___ एवमुक्तास्तेऽप्याईहृदयाः१ स्वल्पपरिचयेनाप्युपचितोचितप्रेमाण२ प्रियंवदतया प्रियमाशशंसुः । एवं-अमुना प्रकारेण राज्ञा उक्ताः-कथितास्तेऽपि आर्द्रहृदयाः-स्निग्धचेतसो महामुनयः स्वल्पपरिचयेनापि-स्तोकसंस्तवेनापि उपचितं-मेदस्विवृद्धं उचितं-योग्यं राज्ञा सह प्रेम-स्नेहो येषां ते उपचितोचितप्रेमाणः, एवम्विधाः सन्तः प्रियं वदन्तीति प्रियम्वदाः "प्रियवशे वदः खच्" [पा. सू. ३/२/३८] इति खच्, खित्वान्मुगागमस्तद्भावः प्रियंवदता तया प्रियं-इष्टं आशशंसुः-कथयामासुः । सुगमस्तवास्तु पन्थाः क्षेमा दिग्देवताः शिवाः शकुनाः । अभिलषितमर्थमचिरात्साधयतु भवानविघ्नेन ॥ ३३ ॥ सुगम इति । हे राजन् ! तव पन्था-मार्गः सुखेन गम्योऽस्तु-त्वं सुखेन मार्ग लंघयेत्यर्थः । सुगम इति "ईषदुःसुषु" [पा. सू. ३/३/१२६] इति सुपूर्वाद् गमेः खल् । तथा दिशां अधिष्ठात्र्यः-देवता दिग्देवताः क्षेमा:-कल्याणकारिण्यो भवन्तु । तथा शकुना:भाविशुभाशुभसूचकाः पक्षिणः शिवा:-निरुपद्रवाः सन्तु, शुभाः शकुनाः भवन्त्वित्यर्थः । यदनेकार्थः-शकुरं स्याद दैवशंसि निमित्ते च शकुनं पुंसि पत्रिणि" [३/४५२] इति । अत एव भवान्-त्वं अविघ्नेन-विघ्नाभावेन अभिलषितं-इष्टमर्थ-अचिरात्-स्तोकेनैव कालेन साधयतु-निष्पादयतु ॥३३॥ इत्यभिधाय व्यावृत्तेषु मुनिषु कौतुकादितस्ततः संचरच्चटुलषट्चरणचक्रचुम्बनाकूततरलितपुष्पपरागपटलपांसुलिततरुतलेषु वहत्सुरभिशिशिरकोमलपवनेषु वनेषु, वनेचरमिथुनमन्मथक्रीडानुकूलेषु कूलेषु, पुलिन्दडिम्भकाध्यासितफ लवद् बदरीषु दरीषु, पुञ्जितकुञ्जरेषु निकुञ्जेषु, दुर्दर्शभानुषु सानुषु, सानुचरश्चरन्ने कस्मिन्नतिनिबिडसंधिसंनिवेशे १. त्वं नास्ति अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy