SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ षष्ठ उच्छ्वासः ४५१ यदाह्निकं -नित्यक्रिया तस्य अवसाने-प्रान्ते रक्तं कमलं गर्भ-मध्ये यस्य एवंविधो यो अर्घः-पूजाविधिर्जलपुष्पादिस्तेन युक्तो यो अञ्जलिः-कुब्जितयुतपाणिद्वयरूपो हस्तन्यासस्तं उत्क्षिप्य-उच्चैविधाय भगवतो भास्वतः-सूर्यस्य स्तुतिमकरोत् ।। जयति जगदेकचक्षुर्विश्वात्मा वेदमन्त्रमयमूर्तिः । तरणिस्तरणतरण्डकमघपटलपयोनिधौ पुंसाम् ॥ ३१ ॥ जयतीति । तरणिः-श्रीसूर्यो जयति । किभूतः । जगति एकं-अद्वितीयं चक्षुरिव प्रकाशकत्वात् । तथा विश्वं-त्रिभुवनमेव आत्मा-स्वरूपं यस्य स विश्वात्मा, ब्रह्मविष्णुशङ्करात्मकत्वात् रवेः विश्वस्य च तेभ्योऽनतिरिक्तत्वं, अतो रवेरपि विश्वात्मकत्वम् । तथा वेदमन्त्रमयी-वेदमन्त्रस्वरूपा मूर्तिर्यस्य सः । तथा पुंसां- भक्तपुरुषाणां अघपटलं-पापसमूह एव पयोनिधिः-समुद्रस्तस्मिन् तरणाय तरण्डक इव-उडुप इव यः स तं । यथा तरण्डकेन अब्धिस्तीर्यते तथा रविप्रसादेन अघपटलाब्धिस्तीर्यत इति । उडुपेन सागरतरणस्य असम्भवात् तरण्डक शब्देनात्र पोत एव गृह्यते । ॥ ३१ ॥ तदनु च चटुलचञ्चरीककुलाकुलितकमलकुड्मलगलद्बहलमकरन्दसुरभिततरङ्गमुत्पतत्कपिञ्जलं जलमवगाह्य चिरमुत्तीर्य तीरमापृच्छ्य मुनिजनमभिवाद्य च पुनः पुलिनपालिपर्यटनाय प्रस्थितः प्रणयादनुव्रजतो मुनिन्निवर्तयन्निदमवादीत् । ___ तदनु-रविस्तुत्यनन्तरं नृपतिः चटुलं-चपलं यच्चञ्चरीकाणां-भृङ्गाणां कुलं तेन आकुलितानि-आक्रमणादिनोत्पीडितानि यानि कमलानि-सरोजानि दिनविकासीनि, कुमुदानि च-श्वेतकमलानि रात्रिविकासीनि तेषां कुड्मलेभ्यः-मुकुलेभ्यो गलन्-क्षरन्, बहुल:-घनो यो मकरन्दस्तेन सुरभितास्तरङ्गा यस्मिंस्तत् । तथा उत्पतन्तः-उड्डीयमानाः कपिञ्जला यस्मिंस्तत्तथाविधं, जलं चिरकालं अवगाह्य । तथा तीरमुत्तीर्य-तटमासाद्य । तथा मुनिजनमापृच्छ्य-पृष्ट्वा च यथा अहं यामीति तथा अभिवाद्य च-मुनिजनमेव नमस्कृत्य । च-पुनः पुलिनपालौ-सैकतप्रान्ते पर्यटनाय-भ्रमणाय प्रस्थितः सन् प्रणयात्-स्नेहात् अनुव्रजत:-अन्वागच्छतो मुनीन् निवर्तयन्-व्यावर्तयन् यथा यूयमत्रैव तिष्ठतेति इदं वक्ष्यमाणं अवादीत् । चक्रधरं विषमाक्षं कृतमदकलराजहंससंचारम् । हरिहरविरिञ्चिसदृशं भजत पयोष्णीतटं मुनयः ॥ ३२ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy