________________
४५०
दमयन्ती-कथा-चम्पूः इन्द्रमिव, तथा हरिमिव-विष्णुमिव, तथा हरिमिव-सिंहमिव । एतदुपमानत्रयं क्रमेण विशिष्यते, तद्यथा- किम्भूतं हरिम् ? पर्वतभेदी-गिरिविदारको यः पविः-वज्रं तं त्रायतेधारयति यः सः तं पर्वतभेदिपवित्रम् । किम्भूतं हरिम् ? नरकस्य- भौमासुरस्य जैत्रंअभिभावुकं विष्णुम् । किम्भूतं हरिम् ? मतङ्गान्-मुनिविशेषाद् ईषदूना बहुमातङ्गाः-गजाः मतङ्गादुत्पन्नत्वात् तान् हन्तीत्यच् क्विपू वा', "कर्मण्यण्" इत्यस्यापवादः। अथवा बहून् मतङ्गान्-गजान् हन्तीति बहुमतङ्गहनं-सिहं । पूर्वव्याख्यायां "विभाषासुपो बहुच पुरस्तात् इति, ईषदूनार्थे बहुच, स च प्रागेव स्यात्" [ ] इति प्रक्रियाकौमुद्याम् ॥ २९ ॥
राजापि ‘एवमेतत्महावराहाङ्गविनिर्गतायाः१ किमन्यदस्याः परत:२ पवित्रम् । यदीयमालोकनमप्यघानि निहन्ति पुंसां चिरसंचितानि ॥ ३० ॥
राजाऽपि-नलोपि इत्यभिधाय उक्त्वा यथाविधिस्नानविधिं अनतिक्रम्य स्नानायमज्जनाय सरिन्मध्यं अवातरत्-प्रविवेश । इतीति किम् ? हे मुनय ! एवमेतत्यद्भवद्भिरुच्यते तत्तथैव । कथम् ?
महावरेति । महावराहाङ्गात्-आदिवराहशरीरात् विनिर्गतायाः-विनिःसृताया अस्याः-अमुष्याः पयोष्ण्याः परतः परं-प्रकृष्टं अन्यत् अपरं किं पवित्रम् ? न किमपीत्यर्थः । यस्याः-नद्या इदं यदीयं आलोकनमपि आस्तां अवगाहनादिदर्शनमपि पुंसां चिरसञ्चितानि-बहुकालसम्भूतानि अघानि-पापानि निहन्ति-अपनयति । उपेन्द्रवज्रा ॥३०॥
तदेष करोमि भवतामादेशम्' इत्यभिधाय यथाविधि स्नानाय सरिन्मध्यमवातरत् ।
अवतीर्य च मन्त्रमार्जनप्राणसंयमसंध्यासूक्तं परिजप्य पितृतर्पणादिसमुचिताह्निकावसाने रक्तकमलगर्भमर्घाञ्जलिमुत्क्षिप्य भगवतो भास्वतस्य स्तुतिमकरोत् ।
तत्-तस्माद्धेतोरेषो अहं भगवतां-महर्षीणां आदेशं करोमि ।
अवतीर्य च-नद्यां प्रविश्य च, तथा मन्त्रमार्जनं-मन्त्रस्नानं, तथा प्राणसंयम:श्वासप्रश्वासरोधने करन्यासोऽङ्गन्यासश्च तौ विद्येते यत्र एवम्विधं यत्सन्ध्यासूक्तंसन्ध्यावन्दनादिपाठस्तत् परिजप्य-समन्तान्मनसि उक्त्वा पितृतर्पणादेः समुचितं-योग्यं
१-१. नास्ति पाठः अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org