SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ षष्ठ उच्छ्वासः ४४९ ब्रह्मोक्ता-वेदोक्ता आशीर्यैस्ते एवम्विधाः सन्तः अर्घ-पूजाविधिं पुष्पादिकं दत्त्वा । अनन्तरंपश्चात् इदं-वक्ष्यमाणमवोचन् । "ब्रह्मा तु तपसि ज्ञाने वेदेऽध्यात्मे द्विजे विधौ" [ ] इत्यनेकार्थः [२/२७९] । मुनयः किं कुर्वन्त: ? उत्प्रेक्ष्यते,-आर्द्रा:-अतिस्निग्धैर्दृष्टिपातै:अवलोकनैः अनुगृह्णन्त इव-अनुग्रहं कुर्वन्त इव । सादरावलोकनं हि अनुग्रहस्य बीजम् । तथा स्वागतं भवतां, शोभनमागतं इति, प्रियः-इष्टो यः प्रश्नालापः-प्रश्नाभाषणं तेन आश्वासयन्त इव-दुःखापनयनं कुर्वन्त इव । तथा दरः-ईषत् यत् हसितं-हास्यं तेन या दन्तज्योत्स्ना- दशनदीधितिः सैव अमृतप्लवः-पीयूषप्रवाहस्तेन स्नपयन्त इव-प्रक्षालयन्त इव। दरेति अव्ययं ईषदर्थे । तथा आदरेण-बहुमानदानेन आह्लादयन्त इव-प्रीणयन्त इव । मुनयो यदवादिषुस्तदाह 'आयुष्मन्, अस्मदीयमिह धर्मोपदेशप्रदानमेव प्रथममातिथेयमतिथिजनेष्वतोऽभिधीयसे । पुण्यं पयोऽस्याः सरितः तदेतदवगाह्य कुरु पुण्यमयमात्मानम् । हे आयुष्मन् !-चिरंजीविन् ! इह-प्रस्तावे अस्मदीयं-अस्माकमिदं अस्मदीयं धर्मस्योपदेशः-कथनं धर्मोपदेशस्तस्य प्रदानमेव प्रथम-पूर्वं अतिथिजनेसु आतिथेयं आतिथ्यं अतिथिषु साधुकर्म, अतिथौ समायाते अस्माभिर्धर्मवाचैव तस्य पुरः प्रोच्यते, इदमेव अस्माकमातिथ्यं । आतिथेयमिति "पथ्यतिथिवसतिस्वपतेर्डक्" [पा. सू. ४/४/१०४] । अतः-अस्माद्धेतोरस्माभिस्त्वं धर्मोपदेशेनैव अभिधीयसे-कथ्यसे । अस्याः-पयोष्ण्याः पयःजलं पुण्यं-पवित्रं । तत्-तस्मादेतत् पयोऽवगाह्य-विलोड्य आत्मानं पुण्यमयं कुरु । तथाहितथाहीति । तस्या एवाम्भस: पावित्र्यं दर्शयन्नाहपर्वतभेदिपवित्रं जैत्रं नरकस्य बहुमतङ्गहनम् । हरिमिव हरिमिव हरिमिव वहति पयः पश्यत पयोष्णी ॥ २९ ॥ पर्वतेति । हे राजन् ! यूयं पश्यत-आलोकयत । इयं पयोष्णी एवम्भूतं पयः पाथो वहति-धारयति । किम्भूतं पयः ? पर्वतं भिनत्ति-विदारयति इत्येवंशीलं पर्वतभेदिगिरिविदारकं, तथा पवित्रं पावनं, तथा नरकस्य-दुर्गते त्रं-पराभविष्णुः । एतत्स्नानात् नरके न कश्चिद् यातीति । अत एव बहुमतं-माननीयं, तथा गहनं-अगाधं । कमिव ? हरिमिव १. °वात्तैव अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy