SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ ४४४ दमयन्ती-कथा-चम्पू: तस्य तले श्रान्ताः सन्तः सुप्ता अध्वनीना:-अध्वगा यत्र तत् । क्रौञ्चकूजनादीनि विशेषणानि रम्यताहेतुत्वात् सैन्यप्रयाणस्खलनसाधनानि ॥ २५ ॥ राजा तु तदाकर्ण्य 'बाहुक, बहूनां बहुमतो बाहुल्यादिहैव वासः, तद्वद सैनिकान्, अवतरत तापीतीरतरुलताश्रयान्', आश्रयत श्रमच्छिदछायाः, कुरुत पटकुटी:, कारयत कायमानानि, २मुञ्चत शाद्वलेष्वबलान्बलीवान्, कूर्दयत कर्दमे माहिषान्, खादयत वंशंकरीराङकुरान्, प्रचारयत क्रमेण" क्रमेलकान्, अवगाहावसाने पृष्टावकीर्णपुलिनपङ्कपांसवो विहरन्तु स्ववशं वंशास्तम्बेषु स्तम्बेरमाः, तरुबुध्नेषु बध्नीत तीव्रवेगान्वेसरान्, अवतरन्तु तापीतीर तरङ्गेषु तुरंगाः, शिशिरतर तरङ्गानिलान्दोलितविविधविकचमञ्जरीजालजटिलेषूत्फुल्लताखण्डमण्डपेषु१० मध्याह्नसमयमतिवाहयन्तु ११ किंनरमिथुनानि' इति सेनापतिमादिदेश । राजा तु-नलस्तन्मागधोक्तं आकर्ण्य-श्रुत्वा इति सेनापति आदिदेश-आदिष्टवान् । इतीति किम् ? हे बाहुकसेनापते ! बाहुल्यात् प्रायो अतिशयेनेत्यर्थः, बहूनां-चमूचराणां इहैव रोधसि वासो बहुमतः । ततस्मादेवं त्वं सैनिकान् वदत । तद् यथा-भोः सैनिकाः ! ताप्यास्तीरे ये तरवः-वृक्षा लता च-वल्लयस्ता एव आश्रयाः-स्थानानि तान् प्रति अवतरत-आश्रयत । तथा श्रममार्ग-खेदं छिन्दन्ति-अपनयन्तीति, श्रमच्छिदस्ताश्छाया आश्रयत । तथा पटकुटी:-पटगृहान् कुरुत । तथा कायमानानि-तृणमयगृहाणि कारयत । तथा शाद्वलेषु-नीलतृणेषु अबलान्-अशक्तान् बलीवर्दान्-वृषभान् मुञ्चत-प्रेषयत । शाद्वलशब्दो मध्यतवर्गीयः, यदुक्तं शब्दप्रभेदे-"एतौ मध्यतवर्गीयौ वैदूर्यमणिशाद्वलौ" [५०] इति । तथा महिषाणां समूहो माहिषं “समूहार्थेऽण्"[तस्य समूहः पा. सू. ४/२/३७] ततः "स्वार्थे कः" तत् कर्दमे-पङ्के कूर्दयत-उप्लावयत, तेषां कर्दमलुठनस्य प्रीतिजनकत्वात् । तथा क्रमेलकान्-उष्ट्रान् प्रकृष्टश्चारः-भक्षणं तस्य क्रमेण-परिपाट्य वंशा:वेणवः करीराश्च-वृक्ष-विशेषास्तेषामङ्कुरान्-प्ररोहान् खादयत-चारयत । तथा स्तम्बेरमाः-हस्तिनो अवगाहः-मज्जनं तस्यावसाने प्रान्ते-पृष्ठे अवतीर्णा:१- विक्षिप्ताः पुलिनपङ्कस्य पांशव:-धूलयो यैस्ते, एवम्विधाः सन्तो वंशीस्तम्बेषु-वेणुगुल्मेषु स्ववशं२स्वेच्छं यथा भवति तथा विहरन्तु-विचरन्तु । तथा तीव्रः-अधिको वेगः-रयो येषां ते एवम्विधान् वेसरान्-वेगसरान् तरूणां बुध्नेषु-मूलेषु बध्नीत-संयच्छत । "बुध्नो गिरिशमूलयोः" इत्यनेकार्थः [२/२७९ ] । तथा तुरङ्गाः-वाजिनो ताप्यास्तीरे ये तरङ्गाः १. अवकीर्णाः अनू. । २. स्ववंश अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy