________________
४४५
षष्ठ उच्छ्वासः वीचयस्तेषु अवतरन्तु-प्रविशन्तु । तथा किन्नरमिथुनानि उत्फुल्ला-विकसिता ये लताखण्डस्य-वीरुवनस्य मण्डपा:-आश्रयविशेषास्तेषु मध्याह्नसमयं अतिवाहयन्तुअतिक्रामयन्तु । किम्भूतेषु मण्डपेषु ? शिशिरतरा:-अतिशीतला ये तरङ्गानिलाः वीचीवायवस्तैरन्दोलितं-कम्पितं विविधानां-अनेकप्रकाराणां विकचानां-सविकासानां मञ्जरीणां यज्जालं-वृन्दं तेन जटिलेषु-व्याप्तेषु ।
स्वयमपि पुष्कराक्षसूचितार्धपथश्रमखिन्नकिंनरमिथुनदिदृक्षया कृतमृगया विनोदव्यपदेशो' दिशि दक्षिणस्यामाप्तस्तोकपरिवार परिवृतो ज्झन्निर्झरझात्कारिवारिरमणीयासु विहितविहारहारिहरिणीनेत्रोत्पलस्तबकितासु रममाणपुलिन्दनितम्बिनीवदनबिम्बचन्द्रिकासु सान्द्रद्रुमद्रोणीषु विचरितुमारभत ।
स्वयमपि राजा-नलः पुष्कराक्षेण सूचितं-कथितं, तथा अर्द्धपथे-अर्द्धमार्गे एव श्रमेण खिन्नं एवंविध यत् किन्नरमिथुनं तस्य दिदृक्षया-दृष्टुमिच्छया, कृतो मृगयाविनोदस्यमृगयाकौतुकस्य व्यपदेश:-छलं येन स, वयं मृगयाक्रीडायै याम इति मिषं विधाय, दक्षिणस्यां दिशि आप्त:-यथार्थवाक् स्तोकः-अल्पो य: परिवार:-परिजनस्तेन परिवृत:परिकरितः सन्, सान्द्राः-निविडा द्रुमा यासु एवम्विधासु द्रोणीषु-शैलसन्धिषु विचरितुंविहर्तुं आरभत-प्रायतत । किम्भूतासु द्रोणीषु ? झरन्तः-श्रवन्तो ये निर्झरा:-प्रस्रवणानि तेषां झात्कारि-प्रस्फुरणशीलं यद् वारि-जलं तेन रमणीयासु-रम्यासु । तथा विहितः-कृतो विहारः-विचरणं याभिरेवंम्विधा हारिण्यः-मनोहरा या हरिण्यः-मृग्यस्तासां नेत्रोत्पलैः स्तबकितासु-कर्बुरितासु । तथा रममाणा:-क्रीडन्त्यो याः पुलिन्दनितम्बिन्यः-शबरस्त्रियस्तासां वदनबिम्बमेव चन्द्रो यासु तास्तासु ।
पुरः स्थितश्चास्य वर्त्म दर्शयन् दर्शनीयजविनं जात्यतरतुरंगमारोपितः पुष्कराक्षोऽप्यभाषत । _ 'देव, मार्कण्डेयप्रमुखमहामुनिनिवासपवित्रिताः पुण्याः खल्विमाः पयोष्णीपरिसरवनभूमयः ।
अस्य नलस्य पुरस्थितश्च वर्त्म दर्शयन् सन्, दर्शनीयं-द्रष्टुं योग्यं अद्भुतं जविनंवेगप्रधानं जात्यतरतुरङ्गं-अतिमनोहरसप्ति आरोपितः-अवस्थापितः पुष्कराक्ष इति अभाषतअवादीत् । इतीति किम् ?
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org