SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ दमयन्ती - कथा - चम्पूः ४३८ समर्थो भवति तथा बलवति - शक्तिमति न प्रभवति । ततो अहमपि अबला, अतो मां मनोभूः पीडयतीति ज्ञापितम् । देवशब्द: पुत्रपुसंकः ॥ २० ॥ अपि च कदा किल भविष्यन्ति कुण्डिनोद्यानभूमयः । उत्फुल्लस्थलपद्माभभवच्चरणरङ्गिताः ॥ २१ ॥' अपि च- पुनः कदेति । हे नल ! किलेति सम्भावनायां, कुण्डिनाख्यनगरस्य उद्यानभूमयः उत्फुल्लौ - विकसितौ यौ स्थलपद्मौ तदाभौ तत्सदृशौ यौ भवच्चरणौ ताभ्यां रङ्गिता:शोभिताः कदा भविष्यन्ति इति सम्भाव्यते । यूयं कदा समागमिष्यथ इति भावः ॥ २१ ॥ इति लेखलिखितप्रणयसुभाषितामृतरसप्लवेनाप्लावितहृदयः, 'विधे विधेहि मे पक्षिण इव पक्षयुगलमुड्डीय येन तां पश्यमि' इति चिन्तयन्नरपति: पुरतः स्थितं तं प्रियवर्तिकमाश्लिष्यन्निवरोमाञ्चनिचयेन, पिबन्निवाभिलाषतृषितया दृशा, स्नपयन्निव मधुरस्मितामृतरसेन, पुनः पुनः सादरम भाषत । इति- अमुना प्रकारेण लेखे - भूर्जपत्रे लिखितानि यानि प्रणयसुभाषितानि - स्नेहसूक्तानि तान्येव अमृतरस:-सुधारूपं जलं तस्य प्लवेन - पूरेण आप्लावितं - आपूरितं हृदयं - चेतो यस्य स:। अन्योपि जलपूरेणाप्लाव्यत एव स्नेहसुभाषितवासितान्त:करण इत्यर्थः । एवम्विधो नरपति:-नल इति चिन्तयन् - विचारयन् पुरतः - अग्रतः स्थितं वार्त्तायां नियुक्तो वार्त्तिकः प्रियस्य वार्त्तिकः प्रियवार्तिकः तं पुष्कराक्षं पुनः पुनः सादरं यथास्यातथा अभाषतअवादीत् । इतीति किम् ? हे विधे ! - ब्रह्मन् ! मे- मम पक्षिण इव पक्षयुगलं विधेहिकुरु, येन पक्षयुगलेन कारणेन वा उड्डीय तां दमयन्तीं पश्यामि । नलस्तं किं कुर्वन्निव ? उच्चो यो रोमाञ्चनिचय: - उद्गतपुलकसमूहस्तेन आश्लिष्यन्निव - आलिङ्गनिव तदभिमुखरोमाञ्चोच्छ्वसनादालिङ्गनं । उत्प्रेक्ष्यते, तथा अभिलाषेण - अवलोकनवाञ्छया तृषिता - पिपासिता अभिलाषतृषिता तया दृशा पिबन्निव । अन्योपि तृषित एव जलं पिबति तथा तं अतिशयेन अवलोकयन्नित्यर्थः । तथा मधुर - मृष्टो यः स्मितमेव अमृतरस:पीयूषजलं तेन स्नपयन्निव - क्षालयन्निव । अन्योपि रसेनैव क्षाल्यत इति । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy