SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ षष्ठ उच्छ्वासः ४३९ अथ यदुवाच नलस्तदाह 'पुष्पकराक्ष, सर्वथा' विजयते राजपुत्री । यस्याः प्रसन्नमुदार२सत्कान्तिश्लिष्टं सुकुमारमनेकालंकारभाजनं वयो वचनं च, प्रश्रयः३ प्रगल्भो विवेकवान्विदग्धबुद्धिर्भवद्विधः परिजनश्च । तत्कथय कथनीयकीर्तिः क्वास्ते ! कथमास्ते ! कं विनोदमनुतिष्ठति ! केन व्यापारेण परिगमयति वासरमसौ५ भवत्स्वामिसुताः' इत्येवमुक्तः स पुनः पल्लवयन्ननुरागकन्दलं नलमलपत् । हे पुष्कराक्ष ! राजपुत्री-दमयन्ती सर्वथा सर्वप्रकारेण विजयति-जयवती वर्तते । यस्या राजपुत्र्या: एवम्विधं वयो वचनं च, वच:शब्देन तदाधारभूतं शरीरमुच्यते । किम्भूतं वयः ? प्रसन्न-निर्मलं, तथा उदारं रम्यं, तथा सत्कान्तिः-तेजस्वि, तथा श्लिष्टंसुघटितसर्वावयवं, तथा सुकुमारं-मृदुः, तथा अनेकालङ्कारभाजनं-बहुभूषणपात्रं । पक्षे किम्भूतं वचनम् ? प्रसन्नं झगित्यर्थप्रतीतिकृत् उदारं-महार्थं सत्कान्ति:-औज्ज्वल्यवत् श्लिष्टं-मसृणं, अज ठं-सुकुमारं अनेके अनुप्रासोपमादयो अलङ्गारास्तेषां भाजनम् । च-पुनः यस्या भवद्विधः-युष्मत्सदृशः परिजन:-परिवारः । किम्भूतः । प्रश्रयेण-स्नेहेन प्रगल्भःप्रौढः, तथा विवेकवान्-विवेकी, तथा विदग्धा-कुशला बुद्धिर्यस्य स तथाविधः । __ हे पुष्कराक्ष ! त्वं कथय-वद । असौ कथनीया-कथयितुं योग्या कीर्तिर्यस्याः सा एवम्विधा भवत्स्वामिनः-भीमस्य सुता-भैमी क्व-कुत्र आस्ते-तिष्ठति ? कथं-केन प्रकारेण आस्ते ? कं विनोदं-कौतुकं अनुतिष्ठति-करोति ? अथ केन व्यापारेण-चेष्टया वासरं-दिनं परिगमयति-अतिवाहयति ? इत्येवं प्रकारेण उक्तः स पुष्कराक्षः पुनः-भूयः अनुराग एव भैम्यां प्रेमबन्ध एव कन्दलः-प्ररोहस्तं पल्लवयन्-किसलयन् वर्द्धयन्नित्यर्थस्तं नलं अलपत् । त्वद्देशागतवायसाय ददती दध्योदनं पिण्डितं, त्वन्नाम्नः सदृशं दृशं निदधती वन्येऽपि मुग्धा नले । त्वत्संदेशकथार्थिनी मृगयते तान्राजहंसान्पुनः, क्रीडोद्यानतरङ्गिणीतरुतलच्छायासु वापीषु च ॥ २२ ॥ त्वद्देशेति । तव यो देशः-उदग्लक्षणस्तस्मादागतो यो वायसः-काङ्कस्तस्मै पिण्डितं-मिश्रितं दध्योदनं-दधि च ओदनं च दध्योदनं समाहारद्वन्द्वः ददती-प्रयच्छन्ती । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy