________________
षष्ठ उच्छासः
४३७
राजाऽपि पार्श्वपरिजनेनोत्क्षिप्यार्पितां तामतिबहल पुलकाङ्कुरकण्टकितप्रकोष्ठकाण्डेन पाणिना स्वयमुन्मुच्य सादरमवाचयत् ।।
राजाऽपि-नल: पार्श्वे-समीपवर्ती यः परिजनस्तेन उत्क्षिप्य-ऊर्वीकृत्य अर्पितांदत्तां तां भूर्जपत्रिकां पाणिना स्वयं उन्मुच्य-उन्मुद्र्य च सादरं-सरभसं अवाचयत्-वाचयति स्म । किम्भूतेन पाणिना ? अतिबहला:-अतिघना ये पुलकाङ् कुरा:-रोमाञ्चास्तैः कण्टकितं-प्राप्तसूचं प्रकोष्ठकाण्डं-कलाचिकानालं यस्य स तेन । अन्यस्मिन्नपि नाले कण्टका भवन्ति । तथा चोकतम्-"कण्टकाः पद्मनाले" इति । तथा रोमाञ्चा एव प्रकोष्ठकाण्डे कण्टका इति ।
अथ यत्तत्र भूर्जपत्रिकायां तथाऽलेखि तदाहनलोऽपि मां प्रत्यनलोऽसि यत्स्याद्भवादृशां नैषध नैष धर्मः ।। तवाबलानां बलवद् ग्रहीतुं न मानसं मानसमुद्र युक्तम् ॥ १९ ॥
नलोपीति । नैषध इत्यभिजननामामन्त्रणेन कुलीनत्वम्, हे नैषध ! त्वं नलोऽपिनलाख्योपि सन् मां प्रति अनलः-वह्निरस्मि, उत्कण्ठाजनकत्वेन सन्तापक इत्यर्थः । अपि:विरोधे, यो नलः स कथं अनलः ? न नलो अनलः इति ? परिहारस्तु प्रागेवाख्यातः । न च एष भवाद्दशां-महाशयानां धर्मो यस्मादहं अबला तस्मात्तव हे मानसमुद्र ! अबलानांदुर्बलानां मानसं-चेतो बलवत्-हठात् ग्रहीतुं न युक्तम् । मानसमुद्र इत्यनेन च सबलानामेव पराजयो युक्तो नाऽबलानाम् । अतो मम अबलाया । मानसग्रहणं न युक्तमिति भावः । बलवदिति हठादित्यर्थे अव्ययम् । मन एव मानसं "प्रज्ञादिभ्यश्च" [पा. सू. ५/४/३८] इति अण् । उपेन्द्रवज्रावृत्तम् ॥ १९ ॥
अपि चनिपपति किल दुर्बलेषु दैवं तदवितथं ननु येन कारणेन । बलवति न यथा तथाबलानां प्रभवति कृष्टशरासनो मनोभूः ॥२०॥ अपि च-पुनः
निपेति । किल इति आप्तोक्तौ । दैवः-विधि दुर्बलेषु निपतति, दैवो दुर्बलान् घातयतीत्यर्थः । तत् अवितथं-सत्यं । ननु-निश्चितं येन कारणेन कृष्ट-प्रगुणीकृतं शरासनंधनुर्येन एवम्विधो मनोभूः-कामो अबलानां-स्त्रीणां, पक्षे-अशक्तानां च यथा प्रभवति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org