SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ ४३६ स्थित्वा त्वदागमनमार्गमुखे गवाक्षे, वार्ताविशेषमधिगन्तुमिहायताक्ष्या । संप्रेषितो निषधनाथ तयास्मि यस्याः, क्रीडागिरिस्त्वमसि मुग्धमनोमृगस्य ॥ १८ ॥ तथा हीति - तदेव दर्शयति स्थित्वेति । हे निषधनाथ ! हे नल ! तव आगमनस्य यो मार्ग:-त्वदागमनमार्गस्तस्मिन् मुख-द्वारं यस्य स तस्मिन् गवाक्षे - वातायने स्थित्वा तया आयताक्ष्या-दीर्घदृशा दमयन्त्या वार्ताविशेषं- वार्त्तान्तरं अधिगन्तुं ज्ञातुं अहं इह सम्प्रेषितोस्मि - मुक्तोस्मि । तत कया ? यस्या मुग्धो मन एव मृगस्तस्य त्वं क्रीडागिरिरसि । यथा मृगः क्रीडागिरौ रमते तथा तस्याः मनस्त्वयि रमत इति । वसन्ततिलका वृत्तम् ॥ १८ ॥ एष्यति च श्वस्तनेऽहनि मार्गश्रमक्लान्तमितो नातिदूर इवो - तुङ्गसरलसालसर्जार्जुननिचुलनिचयान्तरचलच्चकोर'मयूरहारीतहंसकुलकोलाहलिनि पयोष्णीपुलिनपरिसरे स्थितं तया प्रहितमाप्तं क्रीडाकिंनरमिथुनम् । 'इयं च वाच्यतां तया स्वहस्तकिसलयलिखिताक्षरगर्भा भूर्जपत्रिका' इत्यभिधाय पुरोऽस्य लेखपत्त्रिकां व्यसृजत् । दमयन्ती - कथा - चम्पू: एष्यति चेति । च पुन: श्वस्तने- अहनि आगामिनि दिने मार्गश्रमेण क्लान्तं-ग्लानं, अत:-अस्मात्प्रदेशान्नातिदूर इव - समीपे एव पयोष्णीपुलिनपरिसरे स्थितं तया दमयन्त्या प्रहितं प्रेषितं आप्तं- यथार्थवचनं क्रीडाकिन्नरमिथुनं एष्यति -समागमिष्यति । श्वोभवं श्वस्तनम् । " सायं चिरं प्राणे प्रगे व्ययेभ्यस्तनट्" [पा.सू. ४/३/२३] । किम्भूते पयोष्णीतीरपरिसरे ? उत्तुङ्गा- उन्नता ये सरलसालाश्च - देवदारुतरवः सर्जाश्च - साला: अर्जुनाश्चककुभाः निचुलाश्च-हिज्जलास्तेषां निचया:- समूहास्तेषां अन्तरेषु - अन्तरालेषु चलन्तो ये चकोराश्च मयूराश्च हारीताश्च हंसाश्च तेषां यत्कुलं - वृन्दं तस्य कोलाहलः - कूजितं यस्मिन् स तथा तस्मिन् । नदीतटे वृक्षान्तरेषु यत्रामी पक्षिणः शब्दायन्त इत्यर्थः । Jain Education International च - पुनः इयं भूर्जपत्रिका वाच्यताम् । किम्भूता ? तया दमयन्त्या स्वहस्तकिसलयेन - स्वपाणिपल्लवेन लिखितानि अक्षराणि गर्भे मध्ये यस्याः सा । इति - अमुना प्रकारेण अभिधाय - उक्त्वा अस्य नलस्य पुर:- अग्रे लेखपत्रिकां-सन्देशपत्रं व्यसृजत्-मुमोच । लिख्यत इति लेख:- सन्देशः । For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy