SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ ४३४ तथाविध: । “नघृदन्ताद् बहुब्रीहौ कः " [ ]" सोऽपि 'सभ्रमरया क्वणत् 'कीचकवेणुलतया सदृशी नावा - तरणयोग्या किमियमप्रसिद्धा महानदी देवस्य' इत्यभिधाय कथयितुमारब्धवान् । दमयन्ती - कथा - चम्पूः सोऽपि पथिक इत्यभिधाय कथयितुमारब्धवान् । इतीति किम् ? हे देव ! किमियं महानदी देवस्य - राज्ञः अप्रसिद्धा- न विदिता याऽसौ नदी नावा- बेडया तरणयोग्या, तथा सभ्रमरया –सभृङ्गया क्वणत् कीचकवेणुलतया - शब्दायमानसच्छिद्रवंशवल्ल्या सदृशी । वंशवल्ल्यपि अवाते- वाताभावे रणस्य शब्दस्य योग्या न भवति किन्तु वाते सति शब्दयोग्या सरिदपि सभ्रमः - सावर्त्तो रयः - जवो यस्या इति सभ्रमरया । अथ यत् कथयितुमारब्धवांस्तदाह भानोः सुता संवरणस्य भार्या, तापी सरित्सेयमघस्य हन्त्री । यस्याः कुरुः सूनुरभूत्स यस्या नाम्ना कुरुक्षेत्रमुदाहरन्ति ॥ १५ ॥ भानोरिति । हे देव ! सा इयं तापी सरित् । किम्भूता ? भानोः - सूर्यस्य सुता, तथा सम्वरणस्य-क्षत्रियविशेषस्य भार्या, तथा अघस्य - पापस्य हन्त्री - विनाशिका । सा इति का ? यस्या: सूनुः कुरुरभूत् । स इति कः ? यस्य कुरोर्नाम्ना कुरुक्षेत्रमुदाहरन्ति - कथयन्ति कवय इति शेषः । इन्द्रवंशावृत्तम् ॥ १५ ॥ एतस्याः सलिलावगाहसमये कुर्वन्तिं नित्यं नृणां, नीरन्ध्रोन्नतकर्कशस्तनतटीसंघट्टपिष्टोर्मयः । भ्राम्यद्भृङ्गनिभालकैः क्षणमिव व्यालोलनेत्रैर्मुखै, रुत्फुल्लोत्पलगर्भपङ्कजवनभ्रान्ति महाराष्ट्रिकाः ॥ १६ ॥ एतस्या इति । एतस्याः सरितः सलिले यो अवगाहमज्जनं तस्य समये अवसरे महाराष्ट्रिकाः-महाराष्ट्रदेशीयाः स्त्रियो भ्राम्यन्तो ये भृङ्गास्तन्निभाः- तत्तुल्या अलकाःचूर्णकुन्तला येषु तै:, तथा अतिव्यालोलानि - अतिचञ्चलानि नेत्राणि येषु एवम्विधैर्मुखैः कृत्वा नृणां नित्यं क्षणं- एकं उत्फुल्लानि विकसितानि उत्पलानि गर्भे मध्ये यस्य एवम्विधं यत्पङ्कजवनं तस्य भ्रान्ति - सन्देहं कुर्वन्ति । जनाः शंकन्ते अमूनि मुखानि न, किन्तु पद्मानीति। नेत्रयोर्नीलोत्पलं मुखानां च पद्मवनमुपमानम् । पद्मेषु किल भृङ्गैर्भाव्यमत्र तु अलका एव भृङ्गस्थानीया इति । किम्भूता महाराष्ट्रिका: ? नीरन्ध्रा - निविडा उन्नता-उच्चा For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy