SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ ४३२ दमयन्ती-कथा-चम्पू: अपि च-पुन: त्वत्त इति । हे कान्त्या-सौन्दर्येण जितस्मर ! हे नृप ! त्वं पश्य-इति आभिमुख्यकरणे अवलोकय । अरीणां-शत्रूणां जन:-लोकस्त्वत्तो भयेन-त्वद्भयेन वनेषु तिरोहितवान्-अदृश्यतां प्राप्तः । जितस्मर इत्यनेन स्मरोऽपि किल त्वया जित इति तिरोहितोऽभूत् इति प्रतीयते । स्मृतिगोचर एव, न तु दृश्यत इत्यन्वर्थात् । तथा एषप्रत्यक्षवर्ती शाखामृगः-वानरः चपल:-लोलः अनेनैव वनवासिना रिपुजनेन गिरेरुपत्यकांअधोभूमिकां त्याजितो रोहितवानरीणां-रक्तमर्कटीनां स्मरति । वानरीणामिति स्मृत्यर्थकर्मणि षष्ठी । वसन्ततिलकावृत्तम् ॥ १३ ॥ ___ 'अहो नु खल्वयमनल्पशास्त्रीयसंस्कारामृतसंपर्कपल्लवितप्रज्ञाङ्कुरः कोऽपि कुशलः काव्यवक्रोक्तिषु पथिकयुवा योग्यः सम्भाषणस्य' इत्यवधारयति राजनि ससंभ्रमं समुत्थाय' स्थित्वा च पुरः स पान्थः सप्रणाममिमं श्लोकमपाठीत् । अहो-इति आश्चर्ये । नु इति वितर्के । खलु इति वाक्यालङ्कारे । अयं अनल्प:बहुलो यः शास्त्रीयः-शास्त्रसम्बन्धी संस्कारः-वासना स एव अमृतं जलं तस्य सम्पर्केणसम्बन्धेन पल्लवितः-किसलयितो वद्धित इत्यर्थः, प्रज्ञैव अङ्कुरो यस्य सः । अन्योऽपि अङ्करः अमृतसम्पर्केणैव सपल्लवो भवति तथा बुद्ध्यङ कुरोपि शास्त्रसम्पर्केणेति' । पल्लवितशब्दो लक्षणया प्रवृत्तार्थः । एवंविध: कोपि पथिकयुवा काव्यवक्तोक्रिषु-काव्येषु या वक्तोक्तय:-श्लेषरचनास्तासु कुशलः-दक्षः, सम्भाषणस्य-वादनस्य योग्य इति-अमुना प्रकारेण राजनि अवधारयति-चिन्तयति सति, ससम्भ्रमं-सादरं यथा भवति तथा समुत्थाय च-पुनः पुरः-राज्ञो अग्रे स्थित्वा स पान्थः सप्रणाम-नमस्कारसहितं यथा भवति तथा इमं वक्ष्यमाणं श्लोकं अपाठीत्-पपाठ । वेधा वेदनयाश्लिष्टो गोविन्दश्च गदाधरः । शंभुः शूली विषादी च देव केनोपमीयसे ॥ १४ ॥ वेधा इति । हे देव !-राजन् ! त्वं मया केन सह उपमीयसे-केन सहोपमानं तव क्रियते । कथम् ? वेधा-ब्रह्मा वेदनया-पीडया श्लिष्टः-सम्बद्धः । गोविन्दोपि-विष्णुरपि गदेन-रोगेण अधरः-विधुरः । शम्भुः- शूली शूलं-रुग्विशेषोऽस्ति अस्येति शूली, अतएव विषादी च-विषादान्वितः । त्रयोऽपि ब्रह्मविष्णुशम्भवो जगति मुख्यास्तेषां चैवंविधत्वं, अतस्तव केनोपमानं निर्दोषत्वादिति बाह्योर्थः । तत्त्वतस्तु-वेधाः वेदानां नयेन-मतेन १. शास्त्रसंस्कारेणेति अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy