SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ षष्ठ उच्छ्वासः पर्वतगह्वरे ये ग्रामांस्तान् तपस्विनश्च-तापसान् मानयन्, ग्रामाणां च माननमवस्थानविधानेन तापसानां च माननं शिरोनमनादिना । किम्भूतान् ग्रामान् ? सुष्ठु नीरं जलं अगाश्च - तरवो येषु इति सुनीरागास्तान् । किम्भूतान् तपस्विनः ? सुष्ठु निर्गतरागान् । मानयन्निति मानिरुपभोगार्थः पूजार्थश्च । उपभोगे यथा - " मानयिष्यन्ति सिद्धाः " [ ] "सोत्कण्ठानि प्रियसहचरी सम्भ्रमालिङ्गितानि” [ ] । किम्भूतायां सरिति ? उत्कैः - उत्कण्ठितैः कादम्बकदम्बकैः१हंसवृन्दैश्चुम्ब्यमानः-आस्वाद्यमानो यो अम्बुजराशि:- पद्मपंक्तिस्तस्य रजसा- परागेण रञ्जितंपिञ्जरितमम्भ:-जलं यस्याः सा तस्याम् । अथ श्लोकद्वयमाह— तव सुहृदनुरक्त' श्रीफल: कामकेलिं, जनयति वनितानां कुङ्कुमालोहितानाम् । श्रयति स च समूहो मेखलाभूषितः सन्जनयति वनितानां कुंकुमालोऽहितानाम् ॥ १२ ॥ अपि च - त्वत्तो भयेन नृप पश्य जनो वनेषु, कान्त्या जितस्मर तिरोहित - वानरीणाम् । शाखामृगश्चपल एष गिरेरुपत्य कां त्याजितः स्मरति रोहित - वानरीणाम् ॥ १३ ॥ तवेति । तव सम्बन्धी सुहृत् - मित्रजनो अनुरक्त :- उपभुक्तः श्रियः - लक्ष्म्याः फलं: दानभोगादि येन स एवम्विधः सन् कुङ्कुमेन - घुसृणेन आ - ईषल्लोहितानां वनितानां - जनितात्यर्थरागाणां योषितां कामकेलिं- मन्मथलीलां जनयति । " वनिता - जनितात्यर्थरागयोषिती" इति विश्वप्रकाश: [ तान्त. १४६ ] । स च अहितानां - वैरिणां समूहो मेखलायां-गिरिमध्यभुवि उषितः - स्थितः । कुमाल :- कुत्सित स्रक् सन् वैरत्यागात् सज्जनताया: शबरत्वस्य कुं- भूमिकां श्रयति । स चेति चकारात् सुहृदहितसमूहयो: अन्योन्यं अयमाङ्कितपादस्थितविशेषणाभ्यां शब्दश्लेषद्वारेण सम्बन्धः । तद्यथा - मेखलयाकटिपट्टिका भूषितः सुहृत् अहितसमूहोपि अनुभुक्तः - बिल्वः । अत्र प्रथमतृतीयपादौ विशेषणगतश्लेषेणालङ्कृतौ द्वितीयतुर्यौ तु सम्पूर्णयमकेन । यद्वा, जन:-प्राकृतलोकः भार्याभावात् यतिः, वनमस्ति निवासार्थं येषां ते वनिनः -शबरास्तेषां तानः - विस्तारो यस्याः सा ताम् । कुं विशेषणम् । पालिनीवृत्तम् ॥ १२ ॥ १. कादम्बककदम्बकैः अनू. । २. अनुभुक्तः अनू. । Jain Education International ४३१ For Personal & Private Use Only www.jalnelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy