SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ दमयन्ती - कथा - चम्पूः वंशाः-वेणवस्तेषां स्वनेन - ध्वनिना मनोहरां - रम्यां, तथा अनेके तालानां - तरुविशेषाणां भेदा यस्यां सा तां, तथा निषादा: - शबराः मध्ये भवो मध्यमः ग्रामः खेटकं तैर्युक्तां च । कामिव ? गीतविद्यामिव । तां किम्भूताम् ? ततेन तन्त्रीगतेन अवनद्धेन - पौष्करेण घनेनकांस्यकृतेन शुषिरसंज्ञकवंशस्वनेन च मनोज्ञां, यद्यपि ४२६ ― "ततं तन्त्रीगतं ज्ञेयमवनद्धंतु पौष्करम् । घनं कांस्यकृतं प्रोक्तं शुषिरं वांश्यमेव च ॥ [ नाट्यशास्त्र २८ / २] Jain Education International इति भरते । तथाप्यनेकविषयत्वात् वंशस्वनोपादानमसन्देहार्थमुचितमेव । तथा अनेके-बहवस्तालभेदाश्चञ्चत्पुटादयो यस्यां सा तां, तथा निषादेन-स्वरेण मध्यमसंज्ञग्रामेण च युक्तम् । पुनः किम्भूतां विन्ध्याटवीम् ? अनेकैः कंटकै:- सूचैः पत्रैः - पर्णैः लताभिःवल्लीभि: शाखाभिर्वा स्थानकै: - चालवालैर्विषमां दुर्गमां, तथा ऋजव:-अकुटिला आगतास्तपोर्थं प्राप्तास्तापसाः - मुनयो यस्यां सा ताम् । कामिव ? चित्रविद्यामिव । तां किम्भूताम् ? कलिकाकण्टकशाखात्रिभङ्गिसंज्ञाभिश्चत्वारः पत्रावयवा एतैर्मिलित्वा शिशुशकलस्वस्तिकवर्द्धमानसर्वतोभद्राख्यानि पञ्चपत्राणि निष्पाद्यन्ते, तदत्र शाखापर्यायो लताशब्दः तथा स्थानकानि पार्श्वगत ऋजु - ऋज्वागत द्व्यर्धाक्ष, अर्धऋजुगमनालीढत्वरितत्रिभङ्गिसंज्ञानि, तथा च अनेकैः कण्टकैः पत्रैर्लताभिः स्थानकैश्च विषमां, स्थानकशब्देनैव ऋज्वागतं गतार्थमपि व्यापकत्वात् पृथगुक्तं, प्रायो हि चित्रे ऋज्वागतमेव लिख्यते, तथा तपसि भवानि तापसानि मयूरासनोष्ट्रासनादीनि करणानि तापसाख्यानि, तत: ऋज्वागते तापसानि यस्यां सा ताम् । यद्वा, ऋज्वागते तापसानि यस्यां सा ताम् । यद्वा, ऋज्वागतेन तापंस्यतीति केचित्, ऋज्वागतेन दुःखापहारिणीमित्यर्थः । पुनः किम्भूतां विन्ध्याटवीम् ? अप्सुरति: अव्रतिर्महती अव्रतिर्येषां ते महाव्रतिका: - वृक्षास्तेषामन्तः-मध्ये पतन्त्यभीक्ष्णमेवंविधैः कालमुखैः - कृष्णमुखैः वानरै: - मर्कटैः संकुलां - अशून्यां, तथा अनेकधा-बहुधा भिन्नस्रोतसं, - स्फुटितप्रश्रवणां । कामिव ? कलियुगे शिवशासनस्य स्थितिमिव-मर्यादामिव, तां किम्भूताम् ? महाव्रतिका:- कापालिकास्तदन्तःपातिभिःतदन्तर्भूतैः कालमुखैर्वा शैवदर्शनविशिष्टैर्नरैः सङ्कुलां - आचितां, तथा बहुधा भिन्नप्रवाहां, स्रोतोऽत्र लक्षणया प्रवाह आम्नाय इति यावत् । कृतयुगे हि एकमेव शिवशासनमभूत् कलौ तु बह्वाम्नायमिति भावः । श्लेषचित्रादिषु बवयोरैक्यम् । तथाहि “मालामुत्पलकन्दलैः प्रविकचैरायोजितां बिभ्रती, वक्त्रेणासमदृष्टिपात सुभगेनोद्दीपयन्ती स्मरम् । काञ्चीदामनितम्बसङ्गिदधती व्यालम्बिना वाससा, १. हि नास्ति अनू. । २. सुमुखेनो अनू. । - יי मूर्ति: कामरिपोः सितांशुकधरा पायादुमा वा जगत् ॥" [ ] For Personal & Private Use Only www.jalnelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy