________________
षष्ठ उच्छ्वासः
४२५ स्वर्गवनसमं-नन्दनवनतुल्यं, यथा नन्दनवनं समञ्जरीकैर्लताजालकैः सहितं भवति तथा इदं नर्मदादक्षिणतीरमपि । “जालं तु गवाक्षे क्षारके गणे" इत्यनेकार्थः [२/५००] । "क्षारकं कुड्मलं तत्समूहो वा' [ ] इति तद्वृत्तिः । तथा पुण्यं पवित्रं अरण्यंकाननं यस्मिन् तत् । अथ किम्भूतां विन्ध्याटवीम् ? सिंहराशिना-मृगेन्द्रवृन्देन राजितांशोभितां, तथा उत्पतन्तः-उड्डयमानाः पतङ्गाः-शलभा यत्र तां, तथा उत्थिताः वृश्चिकाःद्रुणा यस्यां सा तां, तथा आविर्भूता सह आर्द्रण-शृङ्गबेरेण रोहिणीऔषधिविशेषो मूल:मूलकश्च यस्यां सा ताम् । कामिव ? गगनवीथीमिव-नभोमार्गमिव । तां किम्भूताम् ? सिंहराशि:-ज्योतिषोक्तः पञ्चमो राशिस्तेन राजितां, तथा उत्कृष्टः पतङ्गः-सूर्यो यस्यां सा तां, तथा उत्थितः-उदयं प्राप्तो वृश्चिक:-अष्टमराशिर्यस्यां सा तां, तथा आविर्भूता आर्द्रा सहिता रोहिणीमूलश्च यस्यां सा ताम् । पुनः किम्भूतां विन्ध्याटवीम् ? शार्दूलविक्रीडितेन सिंहविलसितेन मनोहरां, तथा हारिणीभिः-चारुभिर्हरिणीभिः मन्दं-शनै यथा भवति तथा आक्रान्ता-आश्रिता तां, शार्दूलभयादेव, तथा अनवरतं-सदा वसन्तै स्तिलकैश्चतरुविशेषैसद्भासितां-भूषितां, तथा अतिविचित्रा-नानाविधा चम्पकानां माला-श्रेणी यस्यां सा ताम् । कामिव ? छन्दोजातिमिव । किम्भूतां ताम् ? शार्दूलविक्रीडितेन-छन्दोविशेषेण मनोहरां, तथा हारिण्यौ-मनोज्ञे हरिणीमन्दाक्रान्ते जाती यस्यां सा तां, तथा अनवरतं वसन्ततिलकया उद्भासितां, तथा अतिविचित्रा अत्याश्चर्यकारिणी चम्पकमाला यस्यां सा ताम् । पुनः किम्भूतां विन्ध्याटवीम् ? बहुभिः कोटरावणैर्वृत्तां-छन्नां, कोटराणां-तरूणां वनमिति कृत्वा कोटरादीनां वने दीर्घः, तथा उत्पन्न: कुशानां-दर्भाणां लवः-लेशो यस्यां सा ताम् । कामिव? सीतामिव जनकतनयामिव । किम्भूतां ताम् ? बहुकोटेनप्राज्यकौटिल्येन रावणेन- रक्षसा वृतां-प्रार्थितां, तथा उत्पन्नौ कुशश्च लवश्च सुतौ यस्याः सा ताम् । “कुशो रामसुते दर्भे पापिष्ठे योक्त्रमत्तयोः" [२/५५८] "लवः कालभिदि च्छिदि । विलासे रामजे लेशे"[२/५४८] इत्यनेकार्थः । पुनः किम्भूताम् ? सञ्चरद्भिःप्रवर्तमानैविगुणैः-विरज्जुभिः पञ्चाननैः-सिंहैविशेषेण भीषणां-रौद्रां, तथा चारुपुष्पं अर्थान्मनोहरसरोजं कं-जलं यस्यां सा तां, अतएव अकाण्डेपि अनवसरेपि आडम्बरित:विस्तृतो मेघनादः तण्डुलीयको यस्यां सा ताम् । कामिव ? लङ्कामिव । तां किम्भूताम् ? द्वौ गुणौ येषां पञ्चानां ते द्विगुणा:-द्विघ्नाः पञ्चदशेत्यर्थः, तत्संख्यानि आननानि यस्य तद् द्विगुणपञ्चानन· दशमुखी विभीषणश्च-तभ्राता सञ्चरन्तौ द्विगुणपञ्चाननविभीषणौ यस्यां सा ताम्, तथा विमानं यस्यां सा तां, तथा अकाण्डे-अनवसर एव आडम्बरित:बद्धपरिकरो मेघनादः-रावणात्मजो यस्यां सा ताम् । श्लेषे वर्णलोपो न दोषाय । पुनः किम्भूतां विन्ध्याटवीम् ? तता:-विस्तीर्णा अवनद्धा:-सुश्लिष्टा घनसुषिराः-बहुविवरा ये
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org