SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ ४२४ दमयन्ती-कथा-चम्पू: विन्ध्यस्कन्धसंधिसानवः' इति मन्त्रिसूनुना श्रुतशीलेन सह विहितविदग्धालापः, कयापि वेलया कमप्यध्वानमतिक्रम्य क्वाप्यपरिमितपतन्निर्जरजलतुषारस्पर्शमञ्जरितपादपपुष्पपरिमलमिलन्मधुकरझङ्कारहारिणि रममाणशबरमिथुनसंमर्दमृदितामन्द मृदुशाद्वले जलस्थलीप्रदेशे श्रान्तसैनिकानुकम्पया प्रयाणविच्छेदमकरोत् । ___ एवं-अमुना प्रकारेण देवता:-सुरान् अभिनन्द्य स्तुत्वा, तथा विजयवारणेन्द्रस्यविजयगजेन्द्रस्य स्कन्धं समारुह्य-अधिष्ठाय, अग्रत:-पुरतः प्रधाविता:-शीघ्रं गच्छन्तो अनेके करिणः-हस्तिनः तुरङ्गाश्च-अश्वाः परिजनश्च यस्य स, एवंविधः सन् नलः पुरः-अग्रे पुरोधसा-पुरोहितेन महानद्याः-मेकलकन्याया यागः-पूजाविशेषस्तस्मिन् निवतिते सति, एवंविधां भगवती मेकलकन्यां समुत्तीर्य, तथा नर्मदाया दक्षिणभागे स्थितं तीरमुल्लंध्य अग्रतः-पुरतः, एवम्विधां विन्ध्याटवीं अवगाहमान:-अतिक्रामन् इति सम्बन्धः । किम्भूतां मेकलकन्याम् ? युगसहस्रेषु परिवृत्तानि-अतिक्रान्तानि यानि वृत्तान्तानि तेषां साक्षिणीप्रतिभूस्तां या सर्वकालं वहन्तीत्यर्थः । तथा अनवरतं-निरन्तरं तपस्यन्तः-तपस्यां कुर्वन्तो ये ब्रह्मर्षयस्तै प्रतिष्ठितानि-स्थापितानि यानि शिवलिङ्गानि तै रुद्ध-व्याप्तं रोधः तटं यस्याः सा ताम् । तथा अनेकाभिः सुरसुन्दरीभिः सेवितास्तीरे संकेतस्य लतामण्डपा यस्याः सा ताम्, मया तत्र गंस्यते त्वयापि तत्रागन्तव्यमिति सङ्केतः । तथा अनवरतं-असक्तं मज्जन्तःस्नानं कुर्वन्तो ये वनगजास्तेषां मदः-दानं तस्य आमोदेन-परिमलेन सुरभिता:-सुगन्धितास्तरङ्गा यस्यां सा ताम् । तथा अपरसागरराजस्य-पश्चिमसमुद्रनृपस्य महिषीव-पट्टराजीव या सा ताम्, सर्वासामपि सरितं मध्ये एतस्या महत्त्वात् । तथा अमरमार्कण्डेयस्य ऋषेस्तपः सिद्धेः सखीव या सा तां, तेन ऋषिणा अत्र तपस्तप्तमित्यर्थः । अथ किम्भूतं नर्मदादक्षिणतीरम् ? उत्फुल्ला:-विकसिताः पल्लविता:-किसलयिता ये अङ्कोठाश्च सल्लक्यश्च-गजप्रियाः सरलसालाश्च देवदारुस्तरवः सर्जाश्च-सालाः अर्जुनाश्च-ककुभाः निम्बाश्च-अरिष्टाः कदम्बाश्च-नीपाः जम्बूस्तम्बाश्च-गुल्माः उदुम्बराश्च खदिराश्च करञ्जाश्चअञ्जनकाश्च शोभाञ्जनकाश्च-वृक्षविशेषास्ते प्रायः-बाहुल्येन विद्यन्ते येषु ते तथाविधैस्तरुभिः-वृक्षैराकीर्ण-व्याप्तं, अत्र ल्लकारानुप्रासहेतोः केचिदङ्कोल्ल इति पठन्ति तच्च प्राकृते संस्कृते तु अङ्कोठ इति । तथा मतङ्गजानां-करिणामभिमतं इष्टं । तथा सारङ्गैः-हरिणैः अनुभूतं-आस्वादितं पीतं सारं-जंलं यत्र तत्तथाविधम् । “सारं तु द्रविणन्यायवारिषु" [२/४७८] इत्यनेकार्थः । तथा तरङ्गाणां-वीचीनां ये अनिला:-वातास्तैः शिशिरतरंअतिशयेन शीतलम् । तथा समञ्जरीकै:-मञ्जरीसहितैर्लताजालकै:-लताकुड्मलैः कृत्वा १. वहतीत्यर्थः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy