SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ षष्ठ उच्छासः कामरिपोः- शिवस्य मूर्ति: पायात् । कीदृशी ? विगतकेशैः - उत्क्रान्तपलशिरोदलैरायोजितां मालां बिभ्रती । तथा विषमदृष्टिपातसुभगेन वक्त्रेण स्मरं हन्ती । तथा नितम्बसङ्गि-काञ्चीदामप्रायं व्यालं सर्पं दधती । तथा वाससा - वस्त्रेण विना व्यतिरिक्ता । तथा सितां - शुद्धं चन्द्रं धरतीति । पलं - मांसं । कमित्यव्ययं शिरोऽर्थम् । उमापक्षेव्यालम्बिना-लम्बमाने । शेषं सुगमम् । पुनः किम्भूताम् ? समुद्रस्य - अम्भोधेरुपकण्ठे - कूले लग्नां । कामिव ? कापालिकस्य खट्वाङ्गयष्टिमिव । तां किम्भूताम् ? समुद्रं - मुद्रान्वितं यत् उपकण्ठंगलसमीपं तत्र लग्ना तां । मुद्रा भूषणास्थिग्रन्थिः । पुनः किम्भूताम् ? शम्बर:श्वापदविशेषस्तेन अधिष्ठितां - आश्रितां । कामिव ? मायामिव । तां किम्भूताम् ? शम्बरेण - दानवविशेषेण अधिष्ठितां अङ्गीकृतां । शम्बरेण हि विनिर्मिता माया, अतएव शाम्बरीत्युच्यते । पुनः किम्भूतां विन्ध्याटवीम् ? न विद्यते सम्यक् - सुखं चार:- गतिर्यस्यां सा तां । कैः कृत्वा ? केसरिणां सिंहानां प्रसवैः - पोतैः कृत्वा । कीदृग्भिः ? करिण ईरयन्ती - कम्पयन्तीति करीरास्तैः । कामिव ? मरुभूमिमिव । तां किम्भूताम् ? केसरिण:किञ्जल्कोपेताः प्रसवाः - पुष्पाणि यत्र तथाविधैः करीरै:-तरुविशेषैरसञ्चारां-दुर्गमां । पुनः किम्भूताम् ? एवम्विधैस्तृणस्थलैरलङ्कृतां - भूषितां । किम्भूतैः । अतिचारुणि चन्दनानि तरवो यत्र तानि तथाविधैः, तथा कृतो गवां रोचनाविशेषः - अभिलाषातिशयो यैस्तानि तै:, तथा अक्षतां अलूनां दूर्वां वहन्त्यभीक्ष्णं यानि तानि तथा तैः । कैरिव ? आरब्धा:-कृता मङ्गलार्था आचारा: आरब्धमङ्गलाचारास्तैरिव । तैः किम्भूतैः ? अतिचारुश्चन्दनरसो येषु तैः, तथा कृतो गोरोचना-गन्धद्रव्यविशेषः सा चातीवमंगल्या तस्या विशेषकः -तिलकं यत्र तैः, तथा अक्षतान् तण्डुलान् दूर्वां च-अनन्तां वहन्त्यभीक्ष्णमिति अक्षतदूर्वावाहिनस्तैः । पुनर्नल: किं कुर्वन् ? एकत्र - एकस्मिन् स्थाने राशीभूतान् - समूहीभूतान् गिरे:- पर्वतस्य ग्रामाणां च ये पामरलोका:-प्राकृतजनास्तान् आलोकयन् । कीदृशान् ? मेषाणां वृषाणां च मिथुनानि युञ्जन्ति - धारयन्ति ये ते तथाविधान् । तथा सह धनुषा - कोदण्डेन सधनुषस्तान् । तथा सकुम्भा:-मङ्गलार्थं मस्तकन्यस्तकलशाः कन्या : - कुमार्यो येषु ते तथाविधान् । पक्षे, राशिर्ज्योतिषिकोक्ता' मेषादिः - मेषवृषमिथुनकुम्भकन्याराशेर्विशेषसंज्ञाः । तथा मन्त्रिसूनुनाश्रुतशीलेन सह इति वक्ष्यमाणप्रकारेण विहितो विदग्धः - चतुर आलाप:-सम्भाषणं येन एवम्विधः सन् नलः कयापि वेलया-समयेन कमप्यध्वानं वर्त्म अतिक्रम्य-उल्लंध्य क्वापि जलस्थलीप्रदेशे श्रान्ता ये सैनिका:- चमूचरास्तेषु या अनुकम्पा - कृपा तथा प्रयाणविच्छेदंअवस्थानमकरोत् । इतीति किम् ? हे मन्त्रिन् ! इयं सरित्तीरभूमिर्वर्तते । किम्भूता: ? चित्रा:-चित्रवर्णाः शिखण्डिनः - मयूरास्तैर्मण्डिता । केव ? गगनवीथीव - नभोमार्ग इव । सा 1 १. ज्योतिषोक्तो अनू. ४२७ Jain Education International For Personal & Private Use Only www.jalnelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy