________________
षष्ठ उच्छवासः
४२१
तया विहिता सामाख्यवेदेन रम्या स्तुतिर्यस्य सः । अत्र ग्रामपटैकदेशदाहेपि ग्रामो दग्धः पटो दग्धः इत्यादिवदुदरैकदेशभूतायां नाभावपि उदरशब्दो न दुष्टः । पीठशब्दः स्त्रीक्लीबलिङ्गः । तथा न लब्धौ महिमायाः-अनुभावस्याऽवधिः-प्रान्तो यस्य सः अलब्धमहिमावधिः, एतावत्यस्य महिमास्तीति सीमानं न कोपि प्रापेत्यर्थः । तथा मधुनाम्नो दैत्यस्य या वध्वस्तासां सम्बन्धिनो ये विलासास्तेषां अन्तं-विनाशं करोतीति तद्भर्तुर्हननात् । तथा जगत्रितयस्य-त्रिभुवनस्य सम्भवः-उत्पत्तिकारणं, अस्मादेव जगतामुत्पत्तेः । तथा भवभयं अपहरतीत्येवंशीलो भवभयापहारी ॥ ६ ॥
जयेति । हरिर्जयति । किम्भूतः ? असुरसुन्दरीणां नयनवारिणा सम्वद्धितः प्रताप एव तरुर्यस्य सः, तद्भर्त्तारो भगवता हता अतएव ता रुदन्ति । तत एव च प्रतापाधिक्यं, वारिणा च तरुर्वर्धत् एवेति छायार्थः । तथा उल्लसन्-दीप्यमानस्तरुणः-नवो यः केकी तस्य कण्ठवन्नीला छविर्यस्य सः । तथा दलन्ति-विकसन्ति यानि कनककेतक्याः कुसुमानि पत्राणि च-दलानि तद्वत् पीतं-गौरवर्णं अम्बरं वासो यस्य सः । तथा सुराधिपेन-शक्रेण नमस्कृतः । तथा सकललोकस्य नाथः-स्वामी ।। ७ ॥
जयेति । हरिर्जयति । किम्भूतः ? अखिलान्-समस्तान् लोकान्-प्रतिपक्षजनान् जयतीति तथाविधो यो नरकः-भौमासुरस्तस्य काले-विनाशे केतूद्गम इव-केतुग्रहोदय इव यः स, यथा केतूद्गमे लोकानां संहारस्तथा नरकासुरस्य संहारकृदित्यर्थः । तथा मदान्धो मदेन-अहङ्कारेण अन्य इव यो दशकन्धरः-रावणः स एव द्विरदः-हस्ती तत्र दुष्टपञ्चानन इव-उग्रसिंह इव यः सः, यथा सिंहेन करी हन्यते तथा येन रामावतारे स निहत इति । तथा हिरण्यकशिपोर्दैत्यस्य याः प्रियास्तासां मुखान्येव सरोजानि-पद्मानि तत्र चन्द्रोदय इवचन्द्रोद्गम इव यः सः, यथा चन्द्रोदये सरोजं म्लानं भवति तथा येन तद्भर्तृवधात् तासां मुखानि विच्छायानि कृतानि । तथा सुरेन्द्रस्य-शक्रस्य रिपुर्य सिंहिकासुतः-राहुस्तस्य शिरसि- कुठार इव यः सः, यथा परशुना तरुश्छिद्यते तथा येन राहोः शिरश्छिन्नमिति । अमृतविभागकाले देवरूपी राहुरर्के न्दुभ्यां असुरमथनाय विष्णवे कथितस्ततस्तेन अनिगीर्णामृतस्यैव तस्य राहोः शिरःकृत्तमित्यागमः ॥ ८ ॥
जयेति । हरिर्जयति । किम्भूतः ? अमराणां सारथिः-नेता अग्रणीरिति यावत् । तथा मदनेन तप्ता-सन्तापिता या लक्ष्मीस्तस्या लसन्ती-विलसन्ती या पयोधरयुगस्थली तस्यां सरसस्य-आर्द्रस्य चन्दनस्थासको हस्तबिम्व इव यः सः, यथा तप्तमङ्गं चन्दनस्थासकेन शीतली क्रियते तथा तस्याः स्मरतापापहरणेन पयोधरयुगस्थली शीतीकृता । तथा अचिन्त्यः-अनाकलनीयो गुणानां-शौर्यादीनां विस्तरः-प्रपञ्चो यस्य सः, असंख्यगुण
१. सेठिया-'पीठ शब्दो पुनंपुसक:' पृ. १०८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org