SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ दमयन्ती - कथा - चम्पूः ४२२ इत्यर्थः । अत्र विस्तर इति चिन्त्यं, विस्तीर्णार्थे "प्रथनेवाव शब्दे" [पा. सू. ३/३/३३] इति सूत्रेण घञः प्रतिपादनात् तथा च विस्तार इति स्यात् । यथा पटस्य विस्तारः शब्दे वचो विस्तर इति । तथा सकलाः केशिनः कंसस्य च या अङ्गनास्तासां कपोलफलकयोःगण्डस्थलयोरुल्लसन्तो ये तिलकभङ्गाः - विशेषकविच्छित्तयस्तान् हरतीत्येवंशीलः, केशिकंसयोर्वधात् तत्स्त्रियोऽनलङ्कारा एव तिष्ठन्तीति भावः ॥ ९ ॥ जयेति । हरिर्जयति । किम्भूतः ? अमलसाहसः - निर्दोषाभिमानः अविचार्य या प्रवृत्ति:- हिताहितमनपेक्ष्य यत्कर्म तत्साहसं अमलं साहसं यस्य स । तथा सकललोकानां शोकस्य अन्तं-विनाशं करोतीति तथाविधः । तथा सहस्रकरवत् - भानुवद् भासुरं दीप्यमानं स्फुरितं - करे विलासितं चारु रम्यं चक्रं - सुदर्शनाख्यं आयुधं यस्य सः । तथा विहङ्गपति:गरुडः सवाहनं-पत्त्रं यस्य सः । तता कलुषं - पापमेव यः कन्दः - मूलं तं निर्मूलयतिउन्मूलयति यः स कलुषकन्दनिर्मूलनः । तथा समस्ता या भवनावली सैव भवनं गृहं तस्य शिल्पधारी - विवर्धकिरिव' यः सः । यथा शिल्पधारिणा गृहं निष्पाद्यते तथा येन ब्रह्मरूपेण जगत्त्रयी निष्पादितेति ॥ १० ॥ जयेति । हरिर्जयति । अमलभावनया - निर्मलाध्यवसायेन अवनता:- प्रणता ये लोकास्तेषां कल्पद्रुम इव यः सः, यथा कल्पतरुणा कामितं दीयते तथा येन लोकानां कामितानि पूरितानीति भावः । तथा पुरन्दरः- शक्रः पुरस्सर:- अग्रेसरो यस्य ईदृशं यत् त्रिदशवृन्दं-देवसमूहस्तस्मिन् चूडामणिरिव यः स, इन्द्रप्रमुखदेवानां मध्ये प्रधान इत्यर्थः । तथा अरातिकुलं-वैरिवृन्दमेव कन्दल्य: - वृक्षविशेषास्तासां यद् वनं तस्य विनाशे दावानल इव य: स: । यथा दावाग्निना कन्दलीवनं दह्यते तथा येन प्रत्यर्थिसमूहो निहत इत्यर्थः । तथा समस्तमुनीनां मानसे प्रवरराजहंस इव यः सः । यथा मानसे - सरसि राजहंसः क्रीडति तथाऽयं मुनीनां मानसे- चित्ते इति ॥ १२ ॥ एवमभिनन्द्य देवताः, १ समारुह्य विजयिवारणेन्द्रस्कन्धम्, अग्रतः प्रधावितानेककरितुरगपरिजनः पुरः ३ पुरोधसा निवर्त्तिते महानदीयागे' युगसहस्रपरिवर्त्तवृत्तान्तसाक्षिणीम्, अनवरततपस्य' द्ब्रह्मर्षिप्रतिष्ठितशिवलिङ्गरुद्धरोधसम्, अनेकसुर' सुन्दरीसेविततीरसंकेतलतामण्डपाम्, अनवरतमज्जद्वनगजमदामोदसुरभिततरङ्गाम्, अपरसागरराजमहीषीम्, अमरमार्कण्डेयतप:सिद्धिसखीम्, समुत्तीर्य भगवतीं मेकलकन्याम्, १. शिल्पधारीव-वर्द्धकिरिव अनू. । Jain Education International , - For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy