SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ ४२० दमयन्ती-कथा-चम्पू: जयत्यमरसारथिर्मदनतप्तलक्ष्मीलसत्पयोधरयुगस्थलीसरसचन्दनस्थासकः । अचिन्त्यगुणविस्तरः सकलकेशिकंसाङ्गनाकपोलफलकोल्लसत्तिलकभङ्गहारी हरिः ॥ ९ ॥ जयत्यमलसाहसः सकललोकशोकान्तकृत्सहस्रकरभासुरस्फुरित चारुचक्रायुधः । विहङ्गपतिवाहनः कलुषकन्दनिर्मूलनः, समस्तभुवनावलीभवनशिल्पधारी" हरिः ॥ १०॥ जयत्यमलभावनावनतलोककल्पद्रुमः, पुरन्दरपुरःसरत्रिदशवृन्दचूडामणिः । अरातिकुलकन्दलीवनविनाशदावानलः, समस्तमुनिमानसप्रवरराजहंसो हरिः ॥ ११ ॥ जयतीति । हरि:-विष्णुर्जयति-सर्वोत्कर्षेण वर्तते । किम्भूतो हरिः ? उदधेःक्षीरसागरान्निर्गता स्मरेण विलोला-चपला या लक्ष्मीस्तस्या ललन्-उल्लसन् यो विलासरसः-विभ्रमरसस्तेन मन्थरा:-अलसाः स्पृहाः-प्रकटा ये कटाक्षाः-दृष्टिविक्षेपास्तैर्लक्षीकृतः-अवलोकितः । तथा अमन्दः-अनल्पो रयो यस्मिन् स । अमन्दरयःअनल्पवेगो यो मन्दरस्य-मेरोभ्रंमः-भ्रमणं तेन निघृष्टं-उत्पीडितं हेमाङ्गदं-सौवर्णकेयूरं यस्य सः । तथा सुरारीणां-दैत्यानां वध एव नाटकं तस्य प्रथमः-प्रस्तावनायां सूत्रधार इवरङ्गाचार्य इव यः स । यथा सूत्रधारेणैव नाटकस्य प्रस्तावना क्रियते तथा अनेनैव सुरारिवधरचनाचक्र इति भावः ।।४।। जयतीति । हरिर्जयति । किम्भूतः ? अमल:-निर्मलो यः वक्षो कौस्तुभ:-मणिस्तस्य या द्युति:-कान्तिस्तया विराजितं उरस्थलं-वक्षो यस्य सः । तथा सहेलं-सविलासं न तु दुःखेन हता दानवा येन सः । तथा नवतमालवत्-नीला द्युतिर्यस्य सः । तथा विनम्राःनमनशीला या पुष्पावली तस्या विकीर्णाः-निःसृता ये मधुशीकरा:-मकरन्दलवास्तैः स्नपितं-क्षालितं पादपीठं यस्य सः ॥ ५ ॥ जयतीति । हरिर्जयति । किम्भूतः ? उदरात्-नाभेः निःसरन्ती-निर्गच्छन्ती वराप्रधाना या सरोजपीठी-सरोजरूपमासनं तस्यां पठन् यश्चतुर्मुखः-वेधास्तस्य या मुखावली Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy