________________
षष्ठ उच्छासः
४१९ प्रियस्य-इष्टस्य तन्मूर्त्तित्वात् तस्य भगवतो नारायणस्यापि वाञ्छितार्थसिद्धये-अभिलषितवस्तुनिष्पत्तये स्तुतिमकरोत् । यद्वा, पञ्चोपचारा इमे-पूजाश्च गन्ध १ माल्या-२ धिवास ३ धूप ४ प्रदीपाद्याः५ । अधिवासः-गन्धमाल्यादिभिः संस्कारविशेषः इति । अथ श्रीनारायणस्तवनाष्टकम्-१
जयत्युदधिनिर्गतस्मरविलोललक्ष्मीलल-१ द्विलासरसमन्थरस्फुटकटाक्षलक्षीकृतः । अमन्दरयमन्दरभ्रमनिघृष्ट हेमाङ्गदः, सुरारिवधनाटकप्रथमसूत्रधारो हरिः ॥ ४ ॥ जयत्यमलकौस्तुभद्युतिविराजितोरःस्थलः, सहेलहतदानवो नवतमालनीलद्युतिः । विनम्रसुरमस्तकच्युतविकासिपुष्पावलीविकीर्णमधुसीकरस्नपितपादपीठो हरिः ॥ ५ ॥ जयत्युदरनिःसरद्वरसरोजपीठीपठश्चतुर्मुखमुखावलीविहितसारमरम्यस्तुति:३ । अलब्धमहिमावधिर्मधुवधूविलासान्तकृज्जगत्रितयसम्भवो भवभयापहारी हरिः ॥ ६ ॥ जयत्यसुरसुन्दरीनयनवारिसंवर्धितप्रतापतरुरुल्लसत्तरुणकेकिकण्ठच्छविः । दलत्कनककेतकीकुसुमपत्रपीताम्बरः, सुराधिपनमस्कृतः सकललोकनाथो हरिः ॥ ७ ॥ जयत्यखिललोकजिन्नरककालकेतूद्मो, मदान्धदशकन्धरद्विरददुष्टपञ्चाननः । हिरण्यकशिपुप्रियामुखसरोजचन्द्रोदयः,
सुरेन्द्ररिपुसिंहिकासुतशिरःकुठारो हरिः ॥ ८ ॥ १. श्रीनारायणवर्णनाष्टकम् अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org