SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ ४१८ दमयन्ती-कथा-चम्पूः तत्र अवधिः-अवधानं चित्तैकण्यं यस्य स, फलवत्सन्ध्यावन्दननिहितचित्त इत्यर्थः । एवम्विधः सन् भगवन्तं उदयगिरिशिखरं भजतीति तथाविधं भास्करं उदयाद्रिचूलाप्राप्त रविमधिकृत्य-आश्रित्य इमं श्लोकं अपठत् । अवधिः स्यादवधाने कालसीमबिलेष्वपि [३/३६९] इत्यनेकार्थः । इतीति किम् ? भोः सैनिकाः ! यूयं उत्तिष्ठत उत्तिष्ठत, तथा गजाश्च वाजिनश्च वेसर्यश्च-वेगसर्यस्ता आनयत, तथा शकटानि-अनांसि संयोजयत-संघटयत वृषभैः सहेति शेषः, तथा पटकुटी: वेष्टयत-मीलयत्, तथा मण्डपिकानां ये काण्डपटा:गुणलयन्यस्तान् मुकुलयत-वेष्टयत, तथा कीलकान्-शकून् उन्मीलयत-उत्खातयत, तथा वेगात्-त्वरितं वहनीयं-विहङ्गिकादिना वाह्यं यद् भाण्डं-भाजनं तत् उद्वहत-धारयत, तथा करभा:-त्रिहायणाः दासेराः कलभाश्च-त्रिंशदब्दिकाः हस्तिनस्तान् भारयत:-भारवतः कुरुत, भारवन्तं करोति भारयति "तत्करोति तदाचष्टे" [ ] इति णिच् “विन्मतोलुंक्" [पा. सा. ५/३/६५] इति मतुप्प्रत्ययस्य लुक्। तथा क्षीणा:-अतिभारोवहनात् ग्लाना ये उक्षकाः-वृषभास्तान् उत्क्षिपत-उच्चैः कुरुध्वं, तथा सरितं-नदी उत्तरतः-पारे यातेत्यर्थः । तथा पुरतः-अग्रतो अपसरत-गच्छत तथा सञ्चारसहं-कण्टकाद्यपनयनाद् गमनयोग्यं मार्ग कुरुत । अथ यं श्लोकमपठत् तमाह जयत्यम्भोजिनीबन्धुर्बन्धूकारुणरश्मिकः । वैद्रुमो वासरारम्भकुम्भः पल्लववानिव ॥ ३ ॥ जयतीति । अम्भोजिनीबन्धुः श्रीसूर्यो जयति-सर्वोत्कर्षेण वर्तते । किम्भूतः ? बन्धूकपुष्पवत्-बन्धुजीवककुसुमवत् अरुणा:-रक्ता रश्मयः-किरणा यस्य स । उत्प्रेक्ष्यते, पल्लववान्-किसलयमालोपशोभितकण्ठो वैद्रुमः-विद्रुमसम्बन्धी वासरारम्भस्यदिनप्रारम्भस्य कुम्भ इव । अन्यत्रापि विवाहाद्यारम्भे मङ्गलार्थं पल्लववान् कुम्भः क्रियत एव तथा दिनारम्भस्यायं रविः कुम्भ इव । अरुणकराणां पल्लवा रवेः वैद्रुमः कुम्भ उपमानम् ॥ ३ ॥ अभ्यर्च्य च पञ्चोपचारैः सुरासुरगुरुं गौरीपतिं तत्प्रियस्य भगवतो नारायणस्यापि वाञ्छितार्थसिद्धये स्तुतिमकरोत् । च-पुनः सुरासुराणां गुरुः सुरासुरगुरुस्तं गौरीपतिशम्भुं पञ्चभिरुपचारैःउपचर्याभिरभिषेकघुसृणाद्यनुलेपमाल्यगन्धधूपरूपाभिरभ्यर्च्य-पूजयित्वा तस्य शम्भोः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy