SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ षष्ठ उच्छ्वासः ४१७ आक्षिप्तं यच्छन्दवाच्यमुपमानमाह-उत्प्रेक्ष्यते, यत्तेजः विष्णु विरिञ्चयोरन्तः-मध्ये लिङ्गोद्भवस्य-शिवलिङ्गोदयस्य भ्रान्ति-सन्देहं करोतीति लिङ्गोद्भवभ्रान्तिकृत् तदिव दिग्भागयोर्विष्णुविरिञ्चौ । प्रकाशात्मनश्च तेजसो लिङ्गोद्भव उपमानम् । अथवा सत्वं पाण्डु तदेव विष्णुः, रञ्जः-पिञ्जरं तदेव च स्रष्टा, तमः-श्यामं तदेव च हरः एतत् त्रयीमयश्च रविरित्यागमिंकसमयः । तदुक्तम् "सत्वं शुभ्रं स हरिर्लोहित पीतं रज स जगत्कर्ता । कृष्णं तु तमः स भवो भानुरप्येतत् त्रयीमूर्तिः ॥" [ ] अभिधानकारोप्याह-"द्वादशात्मा त्रयीतनुः" [हलायुध. १/३७]. एतेन पाण्डुतेजः इत्युक्ते, सत्वस्य पिञ्जरमित्युक्ते, रजस: श्याममित्युक्ते च तमसः प्रतीतिरिति । ततश्च तमोऽन्विताया अपाच्या अरुणान्वितायाश्च प्राच्यामध्ये मनाक्-ईषल्लक्ष्यं किमपि-अद्भुतं वैभवं तदुत्कृष्टं पाण्डु-पिञ्जरं श्यामं च तेजोऽर्थात् सत्वरजस्तमस्त्रयीमयं-त्रयीतनुलक्षणं वः-युष्मान् अवतु। अमुमेवार्थं सत्वरजस्तमसां संज्ञान्तरेण विष्णुविरिञ्चिलिङ्गोद्भवलक्षणेन द्रढयन्नाहअन्तरित्यादि । पुरा स्वमाहात्म्यार्थं विवदमानयो?हिणनारायणयोः शिवेन स्वस्य लिङ्गस्य ऊर्ध्वाधोमानविज्ञानं महत्त्वहेतुः पण उक्त इत्यागमः ॥ २ ॥ अनन्तरमुत्तिष्ठतोत्तिष्ठतानयत गजवाजिवेसरी:१, संयोजयत शकटानि, वेष्टयत पटकुटीः, मुकुलयत मण्डपिका काण्डपटान्, उन्मूलयत कीलकान्, उद्वहत वेगाद्वहनीयभाण्डम्, भारयत करभकलभान्, उत्क्षिपत क्षीणोक्षकान्, उत्तरत सरितम्, अपसरत पुरतः, कुरुत संचारसहं मार्गम्, इत्यनेकविधप्रयाणाकुललोककोलाहले समुच्छलति, नदत्सुरे प्रस्थानवादित्रेषु, समुत्थाय नरपतिरावश्यकशौचावसाने नर्मदाम्भोभिषेकपूततनुरवन्ध्यं५ सांध्यं विधिरधिकृत्य भगवन्तमुदयगिरिशिखरभाज भास्करम्, इमं श्लोकमपठत् । अनन्तरं-सूर्योद्गमाद- इति-अनेन प्रकारेण विविधप्रकारो यः प्रयाणाकुलानांप्रस्थानव्यग्राणां लोकानां-सैनिकानां कोलाहल:-कलकलस्तस्मिन् समुच्छलिते-उत्थिते सति, तथा प्रस्थानस्य-प्रयाणस्य यानि वादित्राणि-तूर्याणि तेषु नदत्सु सत्सु, नरपतिः-नल: समुत्थाय-शयनादभ्युत्थानं विधाय आवश्यकशौचावसाने-अवश्यकरणीयमुखपादधावनाधनुष्ठानकरणप्रान्ते नर्मदाम्भसा यो अभिषेक:-स्नानं तेन पूजा-पवित्रा तनुः-शरीरं यस्य सः, तथा अवन्ध्या-सफला या सन्ध्या-"पदैकदेशे पदसमुदायोपचारात्" [ ] सन्ध्यावन्दनं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy