SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ ४१६ जयति किमपि तेजः सांप्रतं व्योममध्ये, सलिलमिव विभिन्नं जाह्नवं यामुनं च ॥ १॥ दमयन्ती - कथा - चम्पू: उदयेति । प्राक्प्रभापाण्डुतायां - प्रथमप्रभापाण्डिम्नि उदयगिरिगतायां - उदयाद्रिप्राप्तायां सत्यां, तथा निशीथे च अन्धकारे अस्ताचलस्य शृङ्गं अनुसरति गन्तुं प्रवृत्ते सति किमपि सर्वोत्कृष्टं तेजो जयति । तत्र कविरुत्प्रेक्ष्यते, तेजः किमिव ? साम्प्रतं - इदानीं व्योममध्ये जाह्नवं-गाङ्गं यामुनं च- कालिन्दीयं विभिन्नं सङ्गतं सलिलमिव । व्योम्नि जाह्नव्येवासीत् यमुनया सह सम्भेदः । साम्प्रतमेव अतएवास्मिन् वृत्ते वेणीकृपाणो अमर इतिवत्, धूम कालिदासवत्, घण्टा माघवत्, छत्र भारविवत् च यमुना त्रिविक्रम इति नाम कविरवापत् । तथा च स्तुतिवर: Jain Education International "प्राच्याद् विष्णुपदी हेतोरपूर्वोऽयं त्रिविक्रमः । निर्ममे विमलं व्योम्नि यत्पदं यमुनामपि ॥" [ ] प्रभाया: पाण्डुता प्रभाकृत उद्योतः - प्रकाश इति यावत् । न तु प्रभायाः पाण्डुते 'ति समासः । उदये प्रभाया आरक्तत्वात् । प्रकाशस्तु इन्द्रनीलादीनामपि पाण्डुरेव । जाह्नवीदेवताअधिष्ठात्री । अस्येति "देवतार्थे अण्" [सास्य देवता, पा. सू. ४/३/२४] अन्यथा शैषिका इयः स्यात् ॥ १ ॥ अपि च यात्यस्ताचलमन्धकारपटले जातेऽरुणस्योदये, तापिच्छच्छदपद्मरागमहसोर्मध्ये ककुब्भागयोः । अन्तर्विष्णुविरिञ्चयोरिव मनाग्लिङ्गोद्भवभ्रान्तिकृत्तेजः पाण्डुरेच पिञ्जरं च किमपि श्यामं च तद्बोऽवतात् ॥ २ ॥ अपि च- पुन: यतीति । अन्धकारपटले - तमःसमूहे अस्ताचलं अस्तगिरिं याति - गच्छति सति, तथा अरुणस्य रवेरुदये जाते, सति, तापिच्छस्य यानि छदानि - पत्राणि पद्मरागश्च - लोहितमणिस्तयोरिव महः - तेजो ययोस्तयोः ककुब्भागयोः पश्चिमायाः कृष्णायाः सम्पनारुणोदयायाः पूर्वभ्याश्च लोहिताया दिशोर्मध्ये पाण्डु च धवलं पिञ्जरं च- पीतरक्तं श्यामं चकृष्णं किमपि तत् दुर्लक्षं, मनाक् - स्तोकोदयं तेजोऽर्थात् प्रकाशात्मकं व:- युष्मान् पातु । प्रकाशारुणोदयतमः शेषसमुदायरूपत्वात् पाण्डु पिञ्जरं श्याम चेत्युक्तं । तत्-इत्यनेन For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy