________________
पञ्चम उच्छ्वासः
४०३
अभिनिवेश:- आग्रहो हठो न हीयते - नाल्पीभवति, किं पुनर्यादृक् त्वयि अभिनिवेश: । क इव ? पद्म इव । यथा पद्म:-अब्जं वारित:- जलात् प्रवर्तते तथा अस्य पद्मस्य रक्तस्य सतो नालं-काण्डं दीर्घमनु-सह पराग:-मकरन्द जायते, नालेन सह मकरन्दोपि वर्द्धत इत्यर्थः । सहार्थेनानुयोगेन द्वितीया । तथा अली- भृङ्गी कं- जलं तयोरभिनिवेश: - प्रवेशो यः सोप्यस्य पद्मस्य न हीयते-न हीन: स्यात्। पद्मशब्द उभयलिङ्ग । “पद्मोऽब्जसंख्यो” [ ५७ ] इति लिङ्गानुशासनोक्तेः । किञ्च-पुनरन्यत् उच्यते, अन्यस्य परिग्रहे स्वीकारे वर्तन्त इत्येवंशीलाः अन्यपरिग्रहवर्त्तिन्यस्तासां अन्यपुरुषस्वीकृतानामपि स्त्रीणामन्यत्रापि - पुरुषान्तरे रागग्रहो भवति - रागानुबन्धः स्यात्, किं पुनरनया स्वीकृतायास्तस्या इत्यपि शब्दार्थः । यतः- यस्मात् सम्प्रति- अद्यापि पश्य त्वं वरुणस्यपश्चिमाधिपतेः परिग्रहेपि - वरुणस्वीकृतापि इयं प्रतीची - पश्चिमाशा मय्यपि ममापि विषये रागिणीरक्ता भविष्यति तथा सापि त्वयि रागिणी भविष्यतीति भावः । पुनः किं कुर्वन् ? उत्तुङ्गानि - उन्नतानि यानि तरुशिखराणि - वृक्षप्रान्तास्तानि करैः किरणैरालम्बमानः- आश्रयन्, वृक्षप्रान्तेषु सायं रविरुचिरवलोक्यते । उत्प्रेक्ष्यते, पतनभयादिव, अन्योपि पतनभीत्या कराभ्यां - पाणिभ्यां किञ्चिदालम्बत एव तथाऽयमपि ।
-
अम्बरान्तः प्रसारितकरे रागिण रक्तया परियुक्ते' पश्चिमककुभाऽम्भोजिनीजीवितेश्वरे ।
तदानी अम्बरान्तः - नभोऽन्तः प्रसारिताः करा:- अंशवो येन स तस्मिन्, तथा रागिणि-रक्तयान्विते तथा रक्तया पश्चिमककुभा - प्रतीची दिशा परियुक्ते - सहिते, एवंविधे अम्भोजिनीजीवितेश्वरे- रवौ सति प्राच्या चिन्तितं तदाह
पूर्वाहं विहितोदयाहमसकृत्तन्मां? विहायाधुना, यस्यामस्तमुपैति तां कथमयं रागी जघन्यामगात् । इत्येवं श्लथितांशुके दिनपतौ याते दिशं पश्चिमामीर्ष्यारोषविषादिनीव तमसा प्राची ककुब्लक्ष्यते ॥ ७४ ॥
विश्लेषाकुलचक्रवाकमिथुनैरुत्पीड' माक्रन्दिते,
कारुण्यादिव मीलितासु नलिनीष्वस्तं च मित्रे ५ गते । शोकेनेव दिगङ्गनाभिरभितः श्यामायमानैर्मुखैनिःश्वासानलधूमवर्तय इवोद्गीर्णास्तमोराजयः ॥ ७५ ॥
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org