SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ ४०२ दमयन्ती-कथा-चम्पू: इत्यर्थः । एवंविधः सन् गृहान् प्रति-शिबिरसन्निवेशं प्रति प्रत्यावृत्तः-पश्चादायातः । चिन्तितवांश्च - 'कथं नुरे सा दमयन्ती पुरंदरप्रमुखेषु लोकपालेष्वर्थिषु मया मनुष्यजन्मना लब्धयेति । निवारयिष्यन्ति च तां खलु दिव्यसम्बन्धार्थिनो३ बान्धवाः । तत्किमिह शरणम्' इति विमुक्तदीर्घनिःसहनिःश्वासमसकृच्चिन्तयति राजनि राजन्, रामाजनः पद्म इव वारितः सुतरां प्रवर्तते । नालमस्य दीर्घमनुरक्तस्थ जायतेऽपरागो'लीकामि- निवेशोऽस्य हीयते । किंचान्यदन्यपरिग्रहवर्तिनीनामपि स्त्रीणामन्यत्रापि रागाग्रहो६ भवति । यतः पश्यवरुणपरिग्रहेऽपि प्रतीचीयं मय्यपि रागिणी भविष्यति' । इत्येवमेनं१°माश्वासयन्निव११ भगवान्भानुरु१२त्तुङ्गतरुशिखराणि करैः पतनभयादिवालम्बमान:१३ शनैर्गगनतलादवतीर्य प्रतीची दिशमयासीत् । इति चिन्तितवांश्च-विचारितवान् । इतीति किम् ? नु-इति वितर्के, सा दमयन्ती पुरन्दरप्रमुखेषु पुरन्दरः प्रमुखः-मुख्यो येषां तेषु लोकपालेषु-कुबेरादिषु अर्थिषु-अभिलाषिषु सत्सु कथं मया मनुष्येषु जन्म-उत्पत्तिर्यस्यासौ मनुष्यजन्मा तेन लब्धव्या-प्राप्तव्या, इन्द्रादिवरेषु सत्सु मयि विषये कीदृगनुराग इत्यर्थः । च-पुनः दिवि भवा दिव्याः-इन्द्रादयः "धुप्रागपागुदक्प्रतीचो यत्" [पा. सू. ४/२/१०१] इति यत् शेषेऽर्थे, तैः सह यः सम्बन्धःस्वजनता तं अर्थयन्ते-अभिलषन्तीत्येवंशीला ये ते दिव्यसम्बन्धार्थिनस्तस्या बान्धवाः-भ्रात्रादयः, खलु-निश्चितं मत्तस्तां-दमयन्ती निवारयिष्यन्ति-प्रतिषेधयिष्यन्ति । 'अयं मनुजः इमे' देवाः ततो वरमेभिः सह सम्बन्ध' इति विमृश्य बान्धवा अपि तां तेष्वेव प्रोत्साहयिष्यन्तीति । तत्तस्माद्धेतोः इह-प्रस्तावे किं शरणम् ? इति हेतोविमुक्तो दीर्घो निस्सह:-सोढुमशक्यो निःश्वास:-मुखमारुतो, यत्र चिन्तने एवं यथा भवति तथा राजनि-नले असकृत्-वारंवारं चिन्तयति सति, शनै:-क्रमेण गगनतलाद् अम्बराद् अवतीर्य भगवान् भानुः प्रतीची-पश्चिमां अयासीत् अगात् । किं कुर्वन् ? एनं-नृपं एवं-अमुना प्रकारेण आश्वासयन्निव-दुःखनिवृत्तिं कारयन्निव । तमेव प्रकारमाह-अहो राजन् ! त्वया स्वचेतसि न एवं चिन्तनीयं यदिव्यसम्बन्धार्थिनो बान्धवा अपि तां वारयिष्यन्ति तदेषाऽस्मत्तो विरंस्यतीति । यतो रामाजनो वारितः-निषिद्धः सुतरां-उतीव प्रवर्तते । तथा अस्य-स्त्रीजनस्य दीर्घमनुरक्तस्य-बहुकालं सानुरागस्य सतो अलं-अत्यर्थं न अपरागः-रागापायो जायते, न तस्या, रागस्ततो निवर्तत इत्यर्थः । तथा अस्य-रामाजनस्य अलीकोपि-असत्योपि १. अमी च अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy