________________
पञ्चम उच्छ्वासः
इह रमयति हंसीं राजहंसो रिरंसुः, पुलकयति च चञ्चूकोटिकण्डूयनेन ॥७२॥
हे देव ! - नृप ! इहापीति
चिरेति । इह रेवातटे रिरंसुः - रन्तुमिच्छुः राजहंसो हंसी श्वेतत्वात् श्लक्ष्णत्वाच्च चन्द्ररेखेव आचरत् चन्द्ररेखायमाणं प्रथमरसं प्रकृष्टास्वादं यद् बिसाग्रं-कमलतन्तुप्रान्तस्तस्य यो ग्रासः - कवलस्तस्य लीलया - विलासेन यदर्पणं वितरणं तेन रमयति-क्रीडयति, बिसग्रासं तस्या आनने अर्पयतीत्यर्थः । च- पुनः चञ्चूकोट्या - चञ्च्वग्रभागेन यत्कण्डूयनं - खर्जूकरणं तेन पुलकयति- रोमाञ्चयति । किम्भूतो राजहंसः ? चिरं चिरकालं विरचितं कृतं चाटुप्रियवचनं येन सः ॥ ७२ ॥
अपि च
इह चरति चकोर: कोरकं पङ्कजानामिह चलदलिचक्राच्चक्रवाको बिभेति । इह रमयति जीवंजीवको जीवितेशामिह वहति विकारं हारि हारीतकोऽपि ॥७३॥
४०१
अपि च- पुनः
इहेति । हे देव ! इह-प्रदेशे चकोर: पङ्कजानां - पद्मानां कोरकं - कुड्मलं चरतिभक्षयति । तथा इह प्रदेशे चक्रवाकः चलद् - विचरद् यदलिचक्रं भृङ्गवृन्दं तस्माद् बिभेति त्रस्यति, तमस्विनी भ्रान्त्येति शेषः । तथा इह प्रदेशे जीवंजीवकः-पक्षी जीवितेशांप्रियां रमयति । तथा इह प्रदेशे हारी - मनोहरो हारीतकः - पक्षिविशेषः सोऽपि विकारंस्मरकेलिं वहति-बिभर्त्ति ॥ ७३ ॥
एवमसौ निषधेश्वरः श्रुतशीलेन प्रज्ञापूर्वमपररमणीयप्रदेशान्तरदर्शनव्याजेनान्तरितशबरसुन्दरीदिदृक्षाग्रहो गृहान्प्रतिप्रत्यावृत्तः ।
Jain Education International
एवं - अमुना प्रकारेण असौ निषधेश्वरः श्रुतशीलेन प्रज्ञापूर्वं - बुद्धिपूर्वकं यथा भवति तथा स्वबुद्ध्येत्यर्थः । अपराणि - शबरवधूरमणप्रदेशादन्यानि यानि रमणीयप्रदेशान्तराणि तेषां दर्शनव्याजेन-अवलोकनदम्भेन अन्तरितः - व्यवहितः शबरसुन्दरीणां दिदृक्षाग्रह:अवलोकनेच्छाहठो यस्य सः, श्रुतशीलदर्शितप्रदेशान्तरदर्शनेन विस्मृत तदवलोकनरसः
For Personal & Private Use Only
www.jainelibrary.org