SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ दमयन्ती - कथा - चम्पूः सरसीति । पुलिनभुवि - तटभूमौ एते कुरङ्गाः अपि :- भिन्नक्रमे अशेषमपिसमस्तमपि दिवसं विहारेण - विचरणेन आहारेण च भक्षणेन वन्ध्या-रहिता वसन्तितिष्ठन्ति । तत्र कारणमाह- किम्भूता: ? किञ्चित् - अल्पं सरसिजानां पद्मानां यो मकरन्दस्तस्य यः आमोदः - परिमलस्तेन मत्ता ये अलय:-9 - भृङ्गास्तेषां यद्गीतं - झङ्कारारवस्तस्य श्रवणे यत्सुखं - सौख्यं तेन निमीलती - संकुचती चक्षुसी येषां ते तथाविधाः । पुनः किम्भूता: ? तद्गानरसादेव निश्चलानि अकं - प्राणि अङ्गानि - शरीरावयवा येषां ते । मृगा भृङ्गझङ्कारारवश्रवणरसिकतया विहारमाहारं च न कुर्वन्तीति समुदायार्थः ॥ ७० ॥ इतोऽपि पद्मान्यातपवारणानि नलिनीपत्राणि पर्यङ्किका, दोलन्दोलनदोहदोऽपि च चल' द्वीचीचयैः पूर्यते । आहारो बिसपल्लवाः पुलिनभूर्लीलाविहारास्पदं, रेवावारिणि राजहंसशिशवस्तिष्ठन्ति धन्याः सुखम् ॥ ७१ ॥ ४०० हे देव ! इतोपि - पद्मेति । रेवावारिणि धन्याः - पुण्यवन्तो राजहंसशिशवः सुखं- स्वेच्छया तिष्ठन्ति । अथ सुखावस्थानप्रकारानाह - येषां पद्मानि - अम्भोजानि आतपवारणानि - छत्राणि, तेषां तदधः स्थितत्वात् पद्मानां छत्राकृतित्वम् । तथा येषां नलिनीपत्राणि - कमलिनीदलानि पर्यङ्ककापल्यङ्कस्तेषामुपरि शयितत्वात् । तथा च पुनः येषां चलन्तः - प्रेङ्खन्तो ये वीचीचया:ऊर्मिसमूहास्तैः कृत्वा दोलया - प्रेङ्ख्या यद् अन्दोलनं - क्रीडनं तस्य दोहद: - अभिलाषोपि पूर्यते - सम्पद्यते । तथा येषां बिसानि - कमलतन्तवः पल्लवाश्च - किसलयानि ते आहार:भक्ष्यम् । तथा येषां पुलिन:-तटभूमिर्लीलाविहारस्य - लीलाविचरणस्य आस्पदं - आश्रयः, तत्र क्रीडन्तीत्यर्थः । अत्राऽऽतपत्रप्रभृतयो राजधर्मा राजहंसशिशुषु राजपुत्रेष्वपि उद्भावनीया: । पर्यङ्किका आहारास्पदानामजहल्लिङ्गता ॥ ७१ ॥ इहापि - Jain Education International चिरविरचितचाटुश्चन्द्ररेखायमाणं ३, प्रथमरसबिसाग्रग्रासलीलार्पणेन । For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy