SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ पञ्चम उछासः ३९९ तथाह्यत्र आह्लादयन्ति मृदवो मृदितारविन्द१निष्यन्दमन्दमकरन्दकणान्किरन्तः। एते किरातवनितास्तन गण्डशैल संघट्टजर्जररयः३ सरितः समीराः ॥ ६८ ॥ तथाहीति । तदेव रमणीयत्वं दर्शयति । अत्रेति हे देव ! अत्र-नर्मदातीरे आह्लादेति। एते मृदवः-सुखस्पर्शाः सरित:-नद्याः समीराः-वाताः आह्लादयन्तिप्रमोदयन्ति । एतावता शैत्यं दशितम् । किं कुर्वन्तः समीराः ? मृदितानि-दोलितानि यानि अरविन्दानि तेषां निष्यन्दाः-रसरूपाः मन्दा:- तनवो ये मकरन्दकणास्तान् किरन्त:-विक्षिपन्तः । एतावता सौरभ्यमदर्शि । तथा किरातवनितानां-शबरवधूनां स्तनावेव गण्डशैलौ तयोः संघट्टनेन२संश्लेषेण जर्जरः-मन्दीभूतो रयः-वेगो येषां ते एवम्विधाः । अनेन मान्द्यं दर्शितम् ।। ६८ ॥ एताश्चउपनदि पुलिने पुलिन्दवध्वः स्तनपरिणाहविनिर्जितेभकुम्भाः । शिथिलितसलिलार्द्रकेशबन्धाः किमपि मनोभववैभवं वहन्ति ॥६९॥ एताश्चेति । च-पुन: एता:-पुलिन्दवध्व: [उपनदीति] उपनदि-नद्याः समीपे पुलिने-सैकते किमपि-अद्भुतं मनोभवस्यकामस्य वैभवं-ऐश्वर्यं वहन्ति-धारयन्ति । किम्भूताः ? स्तनपरिणाहेन-पयोधरविशालतया विनिजित इभ'कुम्भो याभिस्ताः । तथा शिथिलित:-श्लथितो विरलीकृतः सलिलेन आर्द्रः-क्लिन्नः केशानां बन्धः-बन्धनं अन्योन्यग्रथनं याभिस्ताः ॥ ६९ ॥ इतश्चावलोकयतु देव: सरसिजमकरन्दामोदमत्तालिगीतश्रवणसुखनिमीलच्चक्षुषः किंचिदेते । अपि दिवसमशेषं निश्चलानाः कुरङ्गाः, पुलिनभुवि विहाराहारवन्ध्या वसन्ति ॥७०॥ इतश्च-अस्मिन्प्रदेशे अवलोकयतु-पश्यतु देव:१. नास्ति अनू. । २. संघट्टेन अनू. । ३. निर्जित इव अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy