SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ ३९८ दमयन्ती - कथा - चम्पूः निःकलं कुरुते । तथा शुचि - शुद्धं अनुपहतं वा पुरुषं हसति - तर्जयति । तथा पण्डि विडम्बयति-लघूकरोति । तथा धीरपुरुषं अधरयति - गलहस्तयति विधुरयतीत्यर्थः । " शुचिः शुद्धे सितेऽनिले । ग्रीष्माषाढानुपहतेषूपधाशुद्धमन्त्रिणि । शृङ्गारे " इत्यनेकार्थः [२/६१-६२]' ॥ ६६ ॥ अपि च मध्ये' त्रिवलीत्रिपथे पीवरकुचचत्वरे च चपलदृशाम् । छलयति मदनपिशाचः पुरुषं हि मनागपि स्खलितम् ॥ ६७ ॥ अपि च- पुनः I मध्येति । चपलदृशां रमणीनां मध्येऽवलग्ने या त्रिवली सैव त्रिपथं तस्मिन् चपुन: पीवरौ कुचावेव चत्वरं - पथां श्लेषः तस्मिन्, हि-निश्चितं मनागपि स्तोकमपि स्खलनं'- तद्दत्तदृष्टिं पुरुषं मदन एव पिशाचो मदनपिशाचश्छलयति वशीकरोति । अन्योप पिशाचस्त्रिपथे चत्वरे च ईषत्स्खलितमपि भूपातादिना पुरुषं छलयति - विकलीकरोति । त्रयाणां पथां समाहारस्त्रिपथं ऋक्पूरब्धूः पथमानक्षे [पा. सू. पू. ५/४/७४] । इति अप्रत्ययः समासान्तः, पात्रादित्वात् स्त्रीत्वं न ॥ ६७ ॥ तदस्तु प्रस्तुतरसानुनयेनैव प्रभूणां मतयो निवर्त्यन्ते निषिद्धनिषेवणात, न प्रतिकूलतया' इत्यवधारयन्नवनिपति रेमवादीत् । 'देव' रमणीयः खल्वयं प्रदेशः । तत्-एतत् सर्वमुन्मादकारणमस्तु परं निषिद्धस्य निषेवणं- सेवनं आग्रहस्तस्मात् सकाशात् प्रभूणां-स्वामिनां मलय:- प्रस्तुतरसानुनयेनैव - प्रकृतरसानुमत्यैव निवर्त्यन्तेव्यावर्त्यन्ते, न प्रतिकूलतया हठात् । निषिद्धस्य निन्द्यजातिसङ्गमादेराग्रहं - स्वीकारं कुर्वाणः प्रभुः सहायसम्पदानुजीविना निवार्यः परं तदभिमतं प्राक् पुरस्कृत्य दोषं च दर्शयित्वा सहसा निवार्यमाणोपि हि प्रभुः पराभवमिव मन्येत । इति अवधारयन् -मनसि आकलयन् श्रुतशीलः अवनिपतिं नलं अवादीत् । हे देव ! रमणीयः खलु-निश्चितं अयं प्रदेशः । १. स्खलितं अनू. । Jain Education International For Personal & Private Use Only www.jalnelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy