________________
पञ्चम उछासः
३९७ एवंविधा निःस्पन्दा-निश्चला दृक् यस्य स तस्मिन्, यथा जरतीकरेणुः पङ्कनिमग्ना सती निःस्पन्दा भवति तथा नलस्यापि दृक् तासां वीक्षणे निःस्पन्दाऽभवत् । तथा तत्कालंतत्समय एव उत्पन्नया-जातया मन्मथव्यथया धीरतया च-धैर्येण कथमेताः स्पृश्यामीति । तथा स्पृहया तासामुपरि वाञ्छया विचिकित्सया च-एता मया प्राप्स्यन्ते न वा इति संशयेन, तथा जिघृक्षया च-तासां ग्रहीतुमिच्छया, जिहासया च चाण्डालीत्वाद्धातुमिच्छया चेत्युभयप्रकारेण समकालं-एकसमय एव आकुलितं-व्यग्रीकृतं हृदयं-मनो यस्य स तस्मिन् । तथा संकीर्ण:जिघृक्षया जिहासया च मिश्रितो यो भाव:-अभिप्रायस्तं भजतीति संकीर्णभावभाक् तस्मिन् । यदचिन्तयत्तदाह
उन्मादि यौवनमिदं शबराङ्गनानां, देवोऽप्ययं नववयाः कमनीयकान्तिः । रेवातटं चलचकोरमयूरहारि,
किं स्यान्न वेद्मि जयिनी च मनोभवाज्ञा ॥६५॥ उन्मादीति । शबराङ्गनानां इदं उन्मादयति उन्मादं करोतीत्येवंशीलं उन्मादियौवनं-तारुण्यं, तथा अयं देवोऽपि-राजापि नववयाः-यौवनस्थाः । किम्भूतः ? कमनीया-रम्या कान्तिर्यस्य स तथाविधः । तथा चला:-चपला ये चकोराश्च मयूराश्च तैर्हारि-मनोज्ञं इदं रेवातटं, तथा च-पुनः मनोभवस्य-कामस्य आज्ञा मनोभवाज्ञा जयिनी जयतीत्येवंशीला जयिनी-जगद्वशविधायिनी, ततोऽहं न वेद्मि-न जाने, न सम्भावयामि' किं स्यात्-किं भविष्यति? सर्वस्यापि उन्मादकारणस्य मिलितत्वात् मा कदाचिदकार्यं करोत्विति भावः। *किं स्यादिति अनवत्कृप्तमर्षयोरकिं वृत्तेपीति किं वृत्ते किंवृत्तेपि “लिङ् लुटौ स्तः" [ ] असम्भावनामर्षयोस्त्रिषु कालेषु सर्वलकारापवादः इति असम्भावने भविष्यति लिङ् * ॥६५।।
तथाहिविकलयति कलाकुशलं, हसति शुचिं पण्डितं विडम्बयति । अधरयति धीरपुरुष, क्षणेन मकरध्वजो देवः ॥ ६६ ॥ तथाहीति । तदेव जगज्जयित्वं तस्या दर्शयति
विकलेति । मकरध्वजः-कामो देवः कलासु कुशलं-दक्षं पुरुषं विकलयति१. संभावयामि नास्ति अनू. । *-* चिह्नान्तर्गतपंक्तिर्नास्ति अनू. किन्तु अस्य स्थाने इयं
पंक्तिर्वर्तते "स्यादित्यव्ययं तिङन्तप्रतिरूपकम्" अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org