________________
दमयन्ती-कथा-चम्पूः
मीलत्सरोजगतभृङ्गतैरिवोक्ताः,
स्नात्वा शनैरनुसरन्ति तटं तरुण्यः ॥ ६४ ॥ एताश्चेति ।
मन्देति । एतास्तरुण्यः स्नात्वा-स्नानं विधाय शनैः-मन्दं मन्दं तट-कूलं अनुलक्षीकृत्य सरन्ति-आगच्छन्ति । एकशोपि प्रयुज्यमानो शनैरिति शब्दो मुहुः शब्दवत् अभ्यासवृत्तिवचनः । किम्भूतास्तरुण्यः ? उत्प्रेक्ष्यते, पद्मिनीभिः-कमलिनीभिः मीलन्तिसंकुचन्ति यानि सरोजानि तद्गताः-तत्प्रविष्टा ये भृङ्गास्तेषां रवैरिति उक्ता इव-कथिता इव । इतीति किम् ? हे स्त्रियः ! इदं दिनं मन्दायते-अल्पीभवति, तथा मदनः-कामः अतिसज्जः-अतिशयेन सावधानो जायते तत्तस्मादचोतोहान् किं न गच्छत-न यात, भृङ्गाः, किल सायं स्वत एव गुञ्जन्ति । परं उत्प्रेक्ष्यते, पद्मिनीभिस्तद् रवेण तासां शिक्षाप्रदीयत इवेत्यर्थः ॥ ६४ ॥
एवमने कविविलासासक्तशबरसुन्दरीदर्शनाल्हादपुलकिते विविधवितर्ककारिणि पङ्कनिमग्नजरत्करेणुकायमाननिःस्पन्ददृशि तत्कालमुत्पन्नया मन्मथव्यथया' धीरतया च स्पृहया च विचिकित्सयारे च जिघृक्षया च जिहासया च समकालमाकुलितहृदये संकीर्णभावभाजि राज्ञि३, राजीववनविराजिते तस्मिन्नर्मदादे सलिलक्रीडासुखमतिचिरमनुभूय तीरभुवि सेव्यसितसैकतस्थलीमलंकुर्वाणासु च तासु शबरराजसुन्दरीषु श्रुतशीलश्चिन्तितवान् ।
एवमिति । राज्ञि एवम्विधे सति च-पुनः तासु-शबरराजसुन्दरीषु तस्मिन्-नर्मदाहदे अतिचिरं-बहुकालं सलिलक्रीडायाः सुखमनुभूय-आसेव्य, तीरभुवि-कूलभूमौ सेव्या-सेवितुं योग्या सिता-श्वेता या सैकतस्थली-सिकतावद्देशस्तां अलंकुर्वाणासु विभूषयन्तीषु सतीषु श्रुतशीलश्चिन्तयाञ्चकार-विचारयामास । “सिकताशर्कराभ्यां च" [पा. सू. ५/२/१०४] इति मत्वर्थे अण् । सैकतः-सिक्तावान् देशः । किम्भूते नर्मदादे ? राजीववनेन विराजितेशोभते। किम्भूते राज्ञि ? एवमिति-पूर्वोक्तप्रकारेण अनेकविधविलासेषु-विविधविभ्रमेषु आसक्ता:-बद्धरागा याः शबरसुन्दर्यास्तासां दर्शनेन य आह्लादः-प्रमोदस्तेन 'पुलकिते-रोमाञ्चिते । तथा विविधान् वितर्कान्-ऊहान् करोतीत्येवंशीलो विविधवितर्ककारी तस्मिन् । तथा पङ्केकर्दमे निमग्ना-बुडिता जरती-वृद्धा या करेणुका-हस्तिनी सेव आचरन्ती करेणुकायमाना
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org