SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ पञ्चम उछ्वासः ३९३ जातिरिति । तातेति कोमलामन्त्रणे हे धातः ! -विधातः ! भवतः-तव सृष्टिक्रम:सर्गपरिपाटी ब्राह्मणादिरूपा दयताम्-भस्मसाद् भवतु । “कर्मकर्त्तरि यक्" [ ] । एतदुक्तौ कारणमाह- किम्भूतस्य भवतः ? यत्र जाति:-क्षत्रियादिस्तत्र नेत्रयोरुत्सवं-हर्ष आरभते-कुरुते इत्येवंशीला नेत्रोत्सवारम्भिणी रूपरचना-सौन्दर्यघटना न । अपिः-अथार्थः । अथ यत्र भिल्लादौरूपश्री:-सौन्दर्यलक्ष्मीस्तत्र न सुलभः-सुप्रापः श्लाघ्यः-प्रशस्यो जन्मोदयः-जन्मप्राप्ति जातिरित्यर्थः, आसां म्लेच्छजातित्वात् । इति-अमुना प्रकारेण एकस्मिन् तिष्ठन्तीति एकस्था ये समस्ताः सुन्दरगुणा यत्र जातिस्तत्रैव रूपश्रीरित्येवंरूपास्तेषामुपरि प्रद्वेषं-ईर्ष्या अभ्यस्यतः-अनुशीलयतः वियोगीकरणात् । अत एव पुनः किम्भूतस्य ? वृथा-निष्फल: श्रमः-सृष्टिप्रयासो यस्य स तस्य अभिलषितार्थासिद्धेः ॥५७।। अपि चग्रीवालम्बितपद्मनाललतिकाः कर्णावतंसीकृतप्रत्यग्रोन्मिषितासितोत्पलदलैः संदिग्धनेत्रद्वयाः । कस्यैता जलदेवता इव कुचप्राग्भारभुग्नोर्मयः१, स्नानासक्तपुलिन्दराजवनिताः कुर्वन्ति नोत्कं मनः ॥ ५८ ॥ अपि च-पुनः ग्रीवेति । एता:-प्रत्यक्षतो वीक्ष्यमाणाः स्नाने-मज्जने आसक्ता -गाढबद्धानुरागा याः पुलिन्दराजवनितास्ता: कस्य-पुरुषस्य मन उत्कं-उत्सुकं कामाभिलाषि न कुर्वन्ति ? अपितु सर्वस्यापीति । किम्भूता वनिताः ? ग्रीवायां-कन्धरायां लम्बिता-लम्बायमानीकृता पद्मनाललतिका याभिस्ताः। तथा कर्णयोरवतंसीकृतानि-कर्णपूरीकृतानि प्रत्यग्राणि-नवानि उन्मिषितानां-विकसितानां असितोत्पलानां-कुवलयानां यानि दलानि-पत्राणि तैः कृत्वा सन्दिग्धं-संशयितं नेत्रद्वयं यासां ताः, उत्पलदलानां नीलवर्णत्वेन विशालत्वेन च नेत्रनिभत्वात् नेत्रद्वयसन्देहः, किन्तु एतासां द्वे एव नेत्रे उत बहूनि ? तथा कुचप्राग्भारेणपयोधरपीवरत्वेन भग्ना ऊर्मयो याभिस्ता वनिताः । का इव ? उत्प्रेक्ष्यते, जलदेवता इवहदाधिदेवता इव, ता अपि एवम्भूता एव भवन्तीति प्राग्भारो महत्त्वम् ॥ ५८ ॥ अपि च - एतस्याः करिकुम्भसंनिभकुचप्राग्भारपृष्ठे लुठद्, गुञ्जागर्भगजेन्द्रमौक्तिकसर श्रेणीमनोहारिणि । १. इति नास्ति अनू. । २. बहूनीति अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy