________________
३९४
दमयन्ती-कथा-चम्पू: दूरादेत्य तरङ्ग एष पतितो वेगाद्विलीनः कथं, को वान्योऽपि विलीयते न सरसः सीमन्तिनीसंगमे ॥ ५९ ॥ अपि च-पुनः
एतस्या इति । एष तरङ्गो दूरादेत्य-आगत्य एतस्या:-किरातवनिताया: गुञ्जा:कृष्णला गर्भे-मध्ये येषां ते गुञ्जागर्भाः लुठन्ती- हृदये दोलायमाना गुजागर्भाणां गजेन्द्रमौक्तिकसराणां-दन्तिमौक्तिकदाम्नां या श्रेणी-राजिस्तया मनोहारिणि-मनोज्ञे करिकुम्भेन सन्निभः-सदृशो यः कुचप्राग्भारः-पयोधरमहत्वं तस्य पृष्ठे-उपरिभागे पतित:लग्नः सन्, कथमिति प्रश्ने वेगात्-शीघ्रं विलीनः-गलितः । वेति पक्षान्तरे, वा-अथवा अन्योपि कः सरसः-सशृङ्गारः सीमन्तिनीसङ्गमे-स्त्रीसंयोगे न विलीयते-गलितवीर्यो न भवेत् ? अपितु सर्वोपि । अयमपि सरस:-सजलः अतएव तत्सङ्गात् विलीन इत्यर्थः ॥५९।।
इयं च
निजप्रियमुखभ्रान्त्या हर्षेणाचुम्बदम्बुजम् ।
दष्टाधरा तु भृङ्गेण सीत्कारमकरोन्मृदु ॥ ६० ॥ इयं च-एषा शबरी
निजेति । निजप्रियस्य-आत्मीयवल्लभस्य मुखभ्रान्त्या-आननभ्रमेण अम्बुजं-पञ हर्षेण अचुम्बत्-स्ववक्त्रसंयुक्तमकरोत् । सा जानात् इदं अम्बुजं न, किन्तु स्वप्रियाऽऽननमिति ततस्तद् अचुम्बदित्यर्थः । तु-पुनः भृङ्गेण दष्टः अधरो यस्याः सा, एवंभूता सती मृदु-अकर्कशं यथा भवति तथा सीत्कारमकरोत् ।। ६० ॥
अनयापि
अविरतमिदमम्भः स्वेच्छयोच्छालयन्त्या, विकचकमलकान्तोत्तानहस्तद्वयेन । परिकलित इवाघः कामबाणातिथिभ्यः,
सलिलमिव वितीर्णां बाल्यलीलासुखाय ॥ ६१ ॥ अनयापीति । अविरतमिति । विकचं-सविकासं यत्कमलं तद्वत् कान्तं-मनोज्ञं उत्तानं-ऊर्वीकृतं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org